Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 687
________________ 670 प्ररूढप्रौढकठिनरोमाणः शूकरादिवत् । असंस्कृतश्मश्रुकेशाः, प्रवृद्धनखराः खराः ॥ १८८ ॥ कृतान्तसदृशाः काला, नीलीकुण्डोद्गता इव । स्थूलव्यक्तस्नसाजालनद्धाः स्फुटितमौलयः ॥ १८९ ॥ बाल्येऽपि कपिलश्वेतमूर्द्धजा वलिभिः श्लथाः । अशक्ता निपतद्दन्ता, जरसा जर्जरा इव ॥ १९० ॥ घटोद्भटमुखा वक्रनासिकाः कुटिलेक्षणाः । उत्कण्डूयाः क्षतशतविगलत्पूयशोणिताः ॥ १९१ ॥ खरोष्ट्रगतयः संहननेनान्त्येन निर्बलाः । कुसंस्थाना: कुप्रमाणा:, कुस्थानशयनासनाः ॥। १९२ ॥ सदाऽप्यशुचयः स्नानब्रह्मचर्यादिवर्जिताः । शास्त्रसंस्काररहिता, मूर्खा विकृतचेष्टिताः ॥ १९३ ॥ निस्सत्त्वाश्च निरुत्साहाः, सोच्छिष्टा नष्टतेजसः । शीतोष्णपवनव्याधिप्रमुखार्त्तिशताश्रयाः ॥ १९४ ॥ प्रस्वेदमलसन्दोहबीभत्सा धूलिधूसरा: । बहुक्रोधमानमायालोभमोहभयोदयाः ।। १९५ ।। व्रतैर्मूलोत्तरगुणैः, प्रत्याख्यानैश्च वर्जिताः । सम्यक्त्वेनापि रहिताः, प्रायः स्युर्मनुजास्तदा ॥ १९६ ॥ कदाचिदेषां केषाञ्चित्, सम्यक्त्वं संभवत्यपि । संक्लिष्टाध्यवसायत्वाद्धिरतिस्तु न सर्वथा ॥ १९७ ॥ तथोक्तं भगवत्यां - 'ओसण्णं धम्मसन्नपब्भट्ठा' जम्बूद्वीपप्रज्ञप्त्यां च - 'ओसण्णं धम्मसन्नसम्मत्तपरिब्भट्ठा' ओसन्नमिति प्रायोग्रहणात्कञ्चित्सम्यक्त्वं प्राप्यतेऽपीति भावः । प्रायः कच्छपमत्स्यादिमांसक्षौद्रादिभोजिनः । तुच्छधान्याशिनः केऽपि, बह्वाहारा बहुक्षुधः ॥ १९८ ।। प्रायो विपद्योत्पद्यन्ते, तिर्यक्षु नरकेषु ते । तिर्यग्भ्यो नरकेभ्यश्च ते प्रायेण स्युरागताः ।। १९९ ॥ चतुष्पदा मृगव्याघ्रसिंहाश्वौतुवृकादयः । पक्षिणो ढङ्ककङ्काद्याः, सरटाद्या: सरीसृपाः ॥ २०० ॥ एतेऽपि सर्वे नरकतिर्यग्दुर्गतिगामिनः । स्युर्मांसभक्षिणः क्रूराध्यवसायाश्च निर्दयाः ॥ २०१ ॥ षष्ठस्य चारकस्यादौ, नरा हस्तद्वयोच्छ्रिताः । हीयमानाः क्रमादन्ते, चैकहस्तोच्छ्रिता मताः ॥ २०२ ॥ उत्कृष्टमायुरेतेषामादौ वर्षाणि विंशतिः । अन्ते षोडश वर्षाणि, हीयमानं शनैः शनैः ॥ २०३॥ तथोक्तं- 'सोलसवीसइवासपरमाउआ समणाउसो' इति श्रीजम्बू० प्र० सूत्रे, एतद्वृत्तावपि - इह कदाचित् षोडश वर्षाणि, कदाचिच्च विंशतिर्वर्षाणि परममायुर्येषां ते इति वीरचरित्रे तु षोडश स्त्रीणां वर्षाणि, विंशतिः पुंसां परमायुरिति । वैताढ्यपर्वतादर्वाग्गङ्गायास्तटयोर्द्वयोः । बिलानि स्युर्नव नव तावन्ति सिन्धुकूलयोः ॥ २०४॥ षट्त्रिंशति बिलेष्वेवं, दक्षिणार्द्धनिवासिनः । वसन्ति मनुजाः पक्षिपशुगोधोरगादयः ॥ २०५ ॥ वैताढ्यात्परतः सिधुगङ्गयोः कुलयोर्द्वयोः । षट्त्रिंशति बिलेष्वेते, वसन्त्युत्तरपार्श्वगाः ॥ २०६ ॥ द्वासप्ततिर्बिलान्येवं, स्युः क्षेत्रेषु दशस्वपि । तेषु तिष्ठन्ति बीजानि, सर्वेषामपि देहिनाम् ॥ २०७ ॥ रथचक्राक्षमात्रोंडो, स्थाध्वमात्रविस्तृतः । तदा जलप्रवाहः स्यात्, सरितो: सिंधुगङ्गयोः ॥ २०८ ॥ तावदप्युदकं तासां भूरिभिर्मत्स्यकच्छपैः । आकीर्णं पहिलं भूरिजीवमल्पतमाम्बुकम् ॥ २०९॥

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738