Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 689
________________ 672 यद्यपि ग्रन्थान्तरे ऋतोराषाढादित्वेन कथनादत्र श्रावणमासे ऋतोरारम्भो न घटते, तथापि भगवतीवृत्त्युक्तस्य ऋतौ श्रावणादिपक्षस्याश्रयणान्न दोष इति जंबू० प्र० वृ० । एवं च-नभः श्यामप्रतिपदि, करणे बालवाभिधे । उत्सर्पिणी प्रविशति, नक्षत्रेऽभिजिदाह्वये ॥ २३३ ॥ तदैव च प्रविशति, दुष्षमदुष्षमाभिध: । अरकः प्रथमोऽमुष्या, उत्सर्पिण्या मुखाधमः ॥ २३४ ॥ अस्मिन् सर्वपदार्थानां, वर्णगन्धादिपर्यवा: । क्षणे क्षणे विवर्द्धन्ते, प्रभृति प्रथमक्षणात् ॥ २३५ ॥ प्राग्भावितोऽवसर्पिण्यां यथाऽनन्तगुणक्षयः । वर्णादीनामुपचयो, भाव्योऽत्रानुक्षणं तथा ॥ २३६ ॥ मनुजा: प्राग्वदत्रापि, बिलवासिन एव ते । आयुर्देहादिपर्यायैः, किंतु वर्द्धिष्णवः क्रमात् ॥ २३७ ॥ प्रथमं षोडशाद्धानि, जनानामिह जीवितम् । वर्षाणि विंशतिं चान्ते, वर्द्धमानं शनैः शनैः ॥ २३८ ॥ एकहस्तोच्चवपुषः, प्रथमं मनुजा इह । वर्द्धमाना: क्रमादन्ते, भवन्ति द्विकरोच्छ्रिताः ॥ २३९ ॥ आहारादिस्वरूपं तु, तेषामत्रापि पूर्ववत् । प्रयान्ति दुर्गतावेव, मांसाहारा अमी अपि ॥ २४० ॥ एवमायेऽरके पूर्णे, द्वितीयः प्रविशत्यर: । दुःषमाख्यः प्रातिलोम्यात्प्रागुक्तदुष्षमोपमः ॥ २४१ ॥ प्रथमे समयेऽथास्य, पुष्करावर्त्तवारिदः । प्रादुर्भवेन्महीमाश्वासयन्नर्हन्निवामृतैः ॥ २४२ ॥ पुष्करं नाम शस्ताम्बु, तेनावर्त्तयति क्षितेः । संहरत्यशुभावस्थां, पुष्करावर्त्तकस्ततः ॥ २४३ ॥ तत्तत्क्षेत्रप्रमाण: स्याद्धिष्कम्भायामत: स च । तीव्रार्कतापच्छेदाय, चन्द्रोदय इव क्षितेः ॥ २४४ ॥ क्षणाक्षेत्रमभिव्याप्य, सर्वं स मृदु गर्जति । सान्त्वयन्निव भूलोकं, दुष्टमेघैरुपद्रुतम् ॥ २४५ ॥ स चाभित: प्रथयति, विद्युतो द्युतिमालिनी: । शुभकालप्रवेशार्हा, इव मङ्गलदीपिकाः ॥ २४६ ॥ मुशलस्थूलधाराभिः, स च वर्षन् दिवानिशम् । निर्वापयति भूपीठं, स्वादुस्वच्छहितोदकः ॥ २४७ ॥ स सप्तभिरहोरात्रैरन्त: स्नेहामृतार्द्रिताम् । क्ष्मां कुर्याच्छान्तसंतापां, प्राणेश इव वल्लभाम् ॥ २४८ ॥ ततस्तस्मिन्नुपरते, पुष्करावर्त्तकाम्बुदे । प्राप्तवार इव प्रादुर्भवति क्षीरवारिदः ॥ २४९ ॥ सप्त प्राग्वदहोरात्रान्, सोऽपि वर्षन् दिवानिशम् । चारु गोक्षीरतुल्याम्बुर्वर्णादीन् जनयेक्षितौ ॥ २५० ॥ क्षीराब्दे विरते तस्मिन्, घृतमेघो घृतोदकः । सप्त वर्षन्नहोरात्रान्, स्नेहं जनयति क्षितेः ॥ २५१ ॥ अहोरात्रांस्ततः सप्त, वर्षन्नमृतवारिदः । नानौषधीजनयति, नानावृक्षलताङ्करान् ॥ २५२ ॥ रसमेघस्ततः सप्ताहोरात्रान् सुरसोदकः । वनस्पतिषु तिक्तादीन्, जनयेत्पञ्चधा रसान् ॥ २५३ ॥ पञ्चानामेव भेदानां, यद्रसेषु विवक्षणम् । तल्लवणमधुरयोरभेदस्य विवक्षया ॥ २५४ ॥ माधुर्यरससंसर्गो, लवणे स्फुटमीक्ष्यते । स्वादुत्वं लवणक्षेपे, भवेत्सर्वरसेषु यत् ॥ २५५ ॥ अत्युत्तमा अमी मेघाः, पुष्करावर्तकादयः । जनयन्ति जगत्स्वास्थ्यं, पञ्चेव परमेष्ठिनः ॥ २५६ ॥ आयोऽत्र शमयेद्दाहं, द्वितीयो जनयेच्छुभान् । वर्णगन्धरसस्पर्शान्, भुवः स्नेहं तृतीयकः ॥ २५७ ॥

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738