________________
672
यद्यपि ग्रन्थान्तरे ऋतोराषाढादित्वेन कथनादत्र श्रावणमासे ऋतोरारम्भो न घटते, तथापि भगवतीवृत्त्युक्तस्य ऋतौ श्रावणादिपक्षस्याश्रयणान्न दोष इति जंबू० प्र० वृ० । एवं च-नभः श्यामप्रतिपदि, करणे बालवाभिधे । उत्सर्पिणी प्रविशति, नक्षत्रेऽभिजिदाह्वये ॥ २३३ ॥ तदैव च प्रविशति, दुष्षमदुष्षमाभिध: । अरकः प्रथमोऽमुष्या, उत्सर्पिण्या मुखाधमः ॥ २३४ ॥ अस्मिन् सर्वपदार्थानां, वर्णगन्धादिपर्यवा: । क्षणे क्षणे विवर्द्धन्ते, प्रभृति प्रथमक्षणात् ॥ २३५ ॥ प्राग्भावितोऽवसर्पिण्यां यथाऽनन्तगुणक्षयः । वर्णादीनामुपचयो, भाव्योऽत्रानुक्षणं तथा ॥ २३६ ॥ मनुजा: प्राग्वदत्रापि, बिलवासिन एव ते । आयुर्देहादिपर्यायैः, किंतु वर्द्धिष्णवः क्रमात् ॥ २३७ ॥ प्रथमं षोडशाद्धानि, जनानामिह जीवितम् । वर्षाणि विंशतिं चान्ते, वर्द्धमानं शनैः शनैः ॥ २३८ ॥ एकहस्तोच्चवपुषः, प्रथमं मनुजा इह । वर्द्धमाना: क्रमादन्ते, भवन्ति द्विकरोच्छ्रिताः ॥ २३९ ॥ आहारादिस्वरूपं तु, तेषामत्रापि पूर्ववत् । प्रयान्ति दुर्गतावेव, मांसाहारा अमी अपि ॥ २४० ॥ एवमायेऽरके पूर्णे, द्वितीयः प्रविशत्यर: । दुःषमाख्यः प्रातिलोम्यात्प्रागुक्तदुष्षमोपमः ॥ २४१ ॥ प्रथमे समयेऽथास्य, पुष्करावर्त्तवारिदः । प्रादुर्भवेन्महीमाश्वासयन्नर्हन्निवामृतैः ॥ २४२ ॥ पुष्करं नाम शस्ताम्बु, तेनावर्त्तयति क्षितेः । संहरत्यशुभावस्थां, पुष्करावर्त्तकस्ततः ॥ २४३ ॥ तत्तत्क्षेत्रप्रमाण: स्याद्धिष्कम्भायामत: स च । तीव्रार्कतापच्छेदाय, चन्द्रोदय इव क्षितेः ॥ २४४ ॥ क्षणाक्षेत्रमभिव्याप्य, सर्वं स मृदु गर्जति । सान्त्वयन्निव भूलोकं, दुष्टमेघैरुपद्रुतम् ॥ २४५ ॥ स चाभित: प्रथयति, विद्युतो द्युतिमालिनी: । शुभकालप्रवेशार्हा, इव मङ्गलदीपिकाः ॥ २४६ ॥ मुशलस्थूलधाराभिः, स च वर्षन् दिवानिशम् । निर्वापयति भूपीठं, स्वादुस्वच्छहितोदकः ॥ २४७ ॥ स सप्तभिरहोरात्रैरन्त: स्नेहामृतार्द्रिताम् । क्ष्मां कुर्याच्छान्तसंतापां, प्राणेश इव वल्लभाम् ॥ २४८ ॥ ततस्तस्मिन्नुपरते, पुष्करावर्त्तकाम्बुदे । प्राप्तवार इव प्रादुर्भवति क्षीरवारिदः ॥ २४९ ॥ सप्त प्राग्वदहोरात्रान्, सोऽपि वर्षन् दिवानिशम् । चारु गोक्षीरतुल्याम्बुर्वर्णादीन् जनयेक्षितौ ॥ २५० ॥ क्षीराब्दे विरते तस्मिन्, घृतमेघो घृतोदकः । सप्त वर्षन्नहोरात्रान्, स्नेहं जनयति क्षितेः ॥ २५१ ॥ अहोरात्रांस्ततः सप्त, वर्षन्नमृतवारिदः । नानौषधीजनयति, नानावृक्षलताङ्करान् ॥ २५२ ॥ रसमेघस्ततः सप्ताहोरात्रान् सुरसोदकः । वनस्पतिषु तिक्तादीन्, जनयेत्पञ्चधा रसान् ॥ २५३ ॥ पञ्चानामेव भेदानां, यद्रसेषु विवक्षणम् । तल्लवणमधुरयोरभेदस्य विवक्षया ॥ २५४ ॥ माधुर्यरससंसर्गो, लवणे स्फुटमीक्ष्यते । स्वादुत्वं लवणक्षेपे, भवेत्सर्वरसेषु यत् ॥ २५५ ॥ अत्युत्तमा अमी मेघाः, पुष्करावर्तकादयः । जनयन्ति जगत्स्वास्थ्यं, पञ्चेव परमेष्ठिनः ॥ २५६ ॥ आयोऽत्र शमयेद्दाहं, द्वितीयो जनयेच्छुभान् । वर्णगन्धरसस्पर्शान्, भुवः स्नेहं तृतीयकः ॥ २५७ ॥