Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 676
________________ 659 प्रतीकाराय तेनास्याः, सर्वथा प्रयतामहे । पद्मादयोऽपि चक्रुस्तांस्तेऽभवन् किन्तु निष्फलाः ॥ ३४२ ॥ पद्मे निराशे खिन्नेऽथ, प्रतिचन्द्राभिधो निशि । एत्य विद्याधरोऽवादीत्सौमित्रेीवनौषधम् ॥ ३४३ ॥ विशल्यास्नाननीरेणाभूवं शल्योज्झितः पुरा । तत्कार्यसिद्धिर्युष्माकं, तेनावश्यं भविष्यति ॥ ३४४ ॥ अस्ति मातुलपुत्री . सा, भरतस्य महीपतेः । ततो युष्मदधीनैव, द्रोणमेघनृपात्मजा ॥ ३४५ ॥ ततो भामण्डलहनूमदाद्याः खेचरेश्वराः । लब्धोपाया विमानेन, द्राम्जग्मुनिशि कोशलाम् ॥ ३४६ ॥ भरतं च पुरस्कृत्य, पुरे कौतुकमङ्गले । गत्वा द्रोणमयाचन्त, विशल्यां कन्यकां ततः ॥ ३४७ ॥ सह कन्यासहस्रेण, ददौ सौमित्रये तदा । विशल्यां द्रोणमेघो यद्रत्नं रत्नेन योज्यते ॥ ३४८ ॥ समादाय विशल्यां ते, निशाशेषेऽथ खेचराः । पद्मं पश्यन्तमध्वानं, दीनाननममूमुदन् ॥ ३४९ ॥ विशल्यापाणिसंस्पर्शाल्लक्ष्मणस्याङ्गतो द्रुतम् । निरगात्सा महाशक्तिमन्त्रान्नागीव वेश्मतः ॥ ३५० ॥ हनूमता सा निर्यान्ती, धृता हस्तेऽब्रवीदिति । अमोघविजयाख्याऽहं, महाशक्तिर्महामते ! ॥ ३५१॥ धरणेन्द्रेण दत्ताऽस्मै, रावणायोग्रभक्तये । प्रज्ञप्त्या भगिनी देवस्यापि लग्ना सुदुःसहा ॥ ३५२ ॥ विशल्यया भवे पूर्वे, कृतानां तपसां महत् । तेजः सोढुमनीशाऽस्मि, द्रुतं गच्छामि मुञ्च माम् ॥ ३५३ ॥ पटूभूतोऽथ सौमित्रिः, प्रात: पद्मानुशासनात् । सह कन्यासहस्रेणोद्वहति स्म विशल्यकाम् ॥ ३५४ ॥ पुनः प्रवृत्ते संग्रामे, सौमित्रिदशकण्ठयोः । मुमोच रावणश्चक्रं, लक्ष्मणस्य जिघांसया ॥ ३५५ ॥ तत्तु प्रदक्षिणां कृत्वा, सौमित्रेर्दक्षिणं करम् । अलञ्चक्रे वशीभूतं, चिरपालितपक्षिवत् ॥ ३५६ ॥ सचक्रं चूर्णयिष्यामीत्युन्माद्यन्तं दशाननम् । चक्रे तेनैव चक्रेण, विष्णुः पाटितवक्षसम् ॥ ३५७ ॥ ततश्च ज्येष्ठबहुलैकादश्यामपराहके । यामे तृतीये नरकं, चतुर्थं रावणो ययौ ॥ ३५८ ॥ लझराज्येऽभिषिच्याथ, पद्मराजो बिभीषणम् । सीतामादाय सौमित्रसेवितः कोशलां ययौ ॥ ३५९ ॥ तत्र त्रिखण्डभूपालैरभिषिक्तः सुरैरपि । लक्ष्मणो वासुदेवत्वे, बलत्वे पद्मभूपतिः ॥ ३६० ॥ द्वादशाब्दसहस्रायुस्तुङ्गश्चापानि षोडश । अष्टमो वासुदेवोऽयमुक्तः पद्मानुजः श्रुते ॥ ३६१ ॥ इति लक्ष्मणः॥ गङ्गदत्तो वणिग्मातुरपमानादिरागवान् । द्रुमसेनर्षिपादान्ते, प्रव्रज्यां प्रतिपन्नवान् ॥ ३६२ ॥ निदानं चकृवानेवं, सोऽन्यदा हस्तिनापुरे । भूयासं तपसाऽनेन, जनानां वल्लभो भृशम् ॥ ३६३ ॥ ततः स्वर्गे महाशुक्रे, स संजातः समाधिना । वृन्दारको महासौख्यो, महाकान्तिर्महास्थितिः ॥ ३६४ ॥ इतश्च मथुरापुर्या, हरिवंशे नृपोऽभवत् । बृहद्बलाढयस्तस्य, तनयो यदुसंज्ञकः ॥ ३६५ ॥ तत्सुतो भूपतिः शूरस्तस्याभूतामुभौ सुतौ । नृपौ शौरिसुवीराख्यौ, जाग्रन्नीतिपराक्रमौ ॥ ३६६ ॥ शूरः शौरिं न्यस्य राज्ये, व्रते प्रववृत्ते स्वयम् । ततः शौरि: कनिष्ठाय, मथुराराज्यमार्पयत् ॥ ३६७ ॥

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738