Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
660
स्वयं कुशार्त्तदेशेषु, चक्रे शौरिपुरं नवम् । जज्ञिरेऽन्धकवृष्ण्याद्यास्तनयाः शौरिभूपतेः ॥ ३६८ ॥ भोजवृष्ण्यादयोऽभूवन्, सुवीरनृपतेः सुताः । न्यवीविशन्नवीनं च स सौवीराख्यपत्तनम् ॥ ३६९ ॥ भोजवृष्णिमहीनेतुर्मथुरानगरीपतेः । उग्रेसेनोऽभवत्पुत्रो, योऽसौ राजीमतीपिता ॥ ३७० ॥ नृपस्यान्धकवृष्णेश्च, सुभद्राकुक्षिसंभवाः । दशाभूवंस्तनुभुवो, दशार्हा इति ये श्रुताः ॥ ३७१ ॥ समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवानचलाभिख्यो, धरणः पूरणोऽपि च ॥ ३७२ ॥ अभिचन्द्रो वसुदेव, स्तेषु प्राच्यनिदानतः । वसुदेवोऽतिसौभाग्यात्, स्त्रीणामासीदतिप्रियः ॥ ३७३ ॥ गङ्गदत्तस्य जीवोऽयमष्टमाद्देवलोकतः । स्थितिक्षये ततश्च्युत्वा, मथुरायां महापुरि ॥ ३७४ ॥ वसुदेवस्य भूपस्य, देवकीकुक्षिजोङ्गजः । कृष्णाख्यो वासुदेवोऽभून्नवमोऽनवमद्युतिः ॥ ३७५ ॥ रामाख्यो बलदेवोऽभूद्रोहिणीकुक्षिसंभवः । अस्य भ्राता विमात्रेयः, परमप्रीतिभाजनम् ॥ ३७६ ॥ अयं श्रीनेमिनाथस्य, पितृव्यतनयः स्मृतः । यतः समुद्रविजयवसुदेवौ सहोदरौ ।। ३७७ ।। अयं वर्षसहस्रायुर्दशचापोच्छ्रितोऽभवत् । बिभ्रत्क्षायिकसम्यक्त्वं श्राद्धो नेमिजिनेशितुः ॥ ३७८ ॥ इति कृष्णः ॥
पञ्चाशीतिर्वत्सराणां, लक्षाण्याद्यस्य जीवितम् । द्वितीयस्यायुरब्दानां लक्षाणि पञ्चसप्ततिः ॥ ३७९ ॥ पञ्चषष्टिस्तृतीयस्य, वर्षलक्षाणि जीवितम् । तुर्यस्य पञ्चपञ्चाशद्वर्षलक्षास्तदीरितम् ॥ ३८० ॥ लक्षाण्येवं सप्तदश, पञ्चमस्यायुरद्भुतम् । षष्ठस्याब्दसहस्राणि पञ्चाशीतिर्भवेदिदम् ॥ ३८१ ॥ पञ्चषष्टिः सहस्राणि वर्षाणां सप्तमस्य तत् । वत्सराणां पञ्चदशसहस्राण्यष्टमस्य च ॥ ३८२ ॥ शतानि द्वादशाब्दानां, नवमस्यायुरीरितम् । नवानां बलदेवानां क्रमः प्रोक्तोऽयमायुषाम् ॥ ३८३ ॥ बलदेवास्त्रयश्च्युत्वाऽनुत्तराख्यविमानतः । जातास्त्रयो महाशुक्राद्ब्रह्मलोकात् त्रयः क्रमात् ॥ ३८४ ॥ विश्वनन्दि: सुबुद्धिश्च तथा सागरदत्तकः । अशोको ललित श्चैव, वराह धनसेनकौ ॥ ३८५ ॥ तथाऽपराजितो राजललित श्चेति तीर्थपाः । नामानि बलदेवानां स्वर्गात्प्राच्यभवे जगुः || ३८६ ॥ बलदेवा ययुर्मुक्तिपदमष्टौ यथाक्रमम् । दशाब्धिजीवितोन्त्यश्च ब्रह्मलोके सुरोऽभवत् ॥ ३८७ ॥ उत्सर्पिण्यां भविष्यन्त्यां, ततश्च्युत्वाऽत्र भारते । भाविनः कृष्णजीवस्याऽर्हतस्तीर्थे स सेत्स्यति ॥ ३८८ ॥ सप्तम्यां प्रथमो विष्णुः, षष्ट्यां पञ्च गताः क्रमात् । पञ्चम्यां च चतुर्थ्यां च, तृतीयायां क्षितौ परे ॥ ३८९ ॥ विष्णवो बलदेवाश्च सर्वे गौतमगोत्रजाः । पद्मनारायणौ तु दौ, ज्ञेयौ काश्यपगोत्रजौ ॥ ३९० ॥ पञ्चाभूवंस्त्रिपृष्ठाद्या, वारेषु हरयः क्रमात् । श्रेयांसस्वामिमुख्यानां पञ्चानामर्हतामिह ॥ ३९१ ॥ अन्तराले च षष्ठोऽभूदरनाथसुभूमयोः । सप्तमोऽप्यन्तरालेऽभूत्सुभूममल्लिनाथयोः ॥ ३९२ ॥ मुनिसुव्रतनम्योश्चान्तराले रामलक्ष्मणौ । श्रीनेमिजिनवारे च, कृष्णोऽभून्नवमो हरिः ॥ ३९३ ॥

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738