SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 660 स्वयं कुशार्त्तदेशेषु, चक्रे शौरिपुरं नवम् । जज्ञिरेऽन्धकवृष्ण्याद्यास्तनयाः शौरिभूपतेः ॥ ३६८ ॥ भोजवृष्ण्यादयोऽभूवन्, सुवीरनृपतेः सुताः । न्यवीविशन्नवीनं च स सौवीराख्यपत्तनम् ॥ ३६९ ॥ भोजवृष्णिमहीनेतुर्मथुरानगरीपतेः । उग्रेसेनोऽभवत्पुत्रो, योऽसौ राजीमतीपिता ॥ ३७० ॥ नृपस्यान्धकवृष्णेश्च, सुभद्राकुक्षिसंभवाः । दशाभूवंस्तनुभुवो, दशार्हा इति ये श्रुताः ॥ ३७१ ॥ समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवानचलाभिख्यो, धरणः पूरणोऽपि च ॥ ३७२ ॥ अभिचन्द्रो वसुदेव, स्तेषु प्राच्यनिदानतः । वसुदेवोऽतिसौभाग्यात्, स्त्रीणामासीदतिप्रियः ॥ ३७३ ॥ गङ्गदत्तस्य जीवोऽयमष्टमाद्देवलोकतः । स्थितिक्षये ततश्च्युत्वा, मथुरायां महापुरि ॥ ३७४ ॥ वसुदेवस्य भूपस्य, देवकीकुक्षिजोङ्गजः । कृष्णाख्यो वासुदेवोऽभून्नवमोऽनवमद्युतिः ॥ ३७५ ॥ रामाख्यो बलदेवोऽभूद्रोहिणीकुक्षिसंभवः । अस्य भ्राता विमात्रेयः, परमप्रीतिभाजनम् ॥ ३७६ ॥ अयं श्रीनेमिनाथस्य, पितृव्यतनयः स्मृतः । यतः समुद्रविजयवसुदेवौ सहोदरौ ।। ३७७ ।। अयं वर्षसहस्रायुर्दशचापोच्छ्रितोऽभवत् । बिभ्रत्क्षायिकसम्यक्त्वं श्राद्धो नेमिजिनेशितुः ॥ ३७८ ॥ इति कृष्णः ॥ पञ्चाशीतिर्वत्सराणां, लक्षाण्याद्यस्य जीवितम् । द्वितीयस्यायुरब्दानां लक्षाणि पञ्चसप्ततिः ॥ ३७९ ॥ पञ्चषष्टिस्तृतीयस्य, वर्षलक्षाणि जीवितम् । तुर्यस्य पञ्चपञ्चाशद्वर्षलक्षास्तदीरितम् ॥ ३८० ॥ लक्षाण्येवं सप्तदश, पञ्चमस्यायुरद्भुतम् । षष्ठस्याब्दसहस्राणि पञ्चाशीतिर्भवेदिदम् ॥ ३८१ ॥ पञ्चषष्टिः सहस्राणि वर्षाणां सप्तमस्य तत् । वत्सराणां पञ्चदशसहस्राण्यष्टमस्य च ॥ ३८२ ॥ शतानि द्वादशाब्दानां, नवमस्यायुरीरितम् । नवानां बलदेवानां क्रमः प्रोक्तोऽयमायुषाम् ॥ ३८३ ॥ बलदेवास्त्रयश्च्युत्वाऽनुत्तराख्यविमानतः । जातास्त्रयो महाशुक्राद्ब्रह्मलोकात् त्रयः क्रमात् ॥ ३८४ ॥ विश्वनन्दि: सुबुद्धिश्च तथा सागरदत्तकः । अशोको ललित श्चैव, वराह धनसेनकौ ॥ ३८५ ॥ तथाऽपराजितो राजललित श्चेति तीर्थपाः । नामानि बलदेवानां स्वर्गात्प्राच्यभवे जगुः || ३८६ ॥ बलदेवा ययुर्मुक्तिपदमष्टौ यथाक्रमम् । दशाब्धिजीवितोन्त्यश्च ब्रह्मलोके सुरोऽभवत् ॥ ३८७ ॥ उत्सर्पिण्यां भविष्यन्त्यां, ततश्च्युत्वाऽत्र भारते । भाविनः कृष्णजीवस्याऽर्हतस्तीर्थे स सेत्स्यति ॥ ३८८ ॥ सप्तम्यां प्रथमो विष्णुः, षष्ट्यां पञ्च गताः क्रमात् । पञ्चम्यां च चतुर्थ्यां च, तृतीयायां क्षितौ परे ॥ ३८९ ॥ विष्णवो बलदेवाश्च सर्वे गौतमगोत्रजाः । पद्मनारायणौ तु दौ, ज्ञेयौ काश्यपगोत्रजौ ॥ ३९० ॥ पञ्चाभूवंस्त्रिपृष्ठाद्या, वारेषु हरयः क्रमात् । श्रेयांसस्वामिमुख्यानां पञ्चानामर्हतामिह ॥ ३९१ ॥ अन्तराले च षष्ठोऽभूदरनाथसुभूमयोः । सप्तमोऽप्यन्तरालेऽभूत्सुभूममल्लिनाथयोः ॥ ३९२ ॥ मुनिसुव्रतनम्योश्चान्तराले रामलक्ष्मणौ । श्रीनेमिजिनवारे च, कृष्णोऽभून्नवमो हरिः ॥ ३९३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy