________________
661
तथोक्तं-दो तित्थेस सचकि, अठ्ठ य जिणा, तो पञ्च केसीजुआ, दो चक्काहिव, तिन्नि चक्कियजिणा, तो केसि चक्की हरि । तित्थेसो इगु तो सचक्कि य जिणो केसी सचक्की जिणो चक्की केसव संजुओ जिणवरो चक्की य तो दो जिणा ॥
चक्रिवासुदेवयोश्च क्रममेवमाहुः — “चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की | केसव चक्की केसव दुहि केसी य चक्की य” ॥ [ आवश्यकनिर्युक्ति श्लो. ४२१ ] त्रयोऽर्हन्तश्चक्रिणो यद्यच्चान्त्योऽर्हत्पदद्वयम् । दधौ द्वाभ्यां शरीराभ्यां तीर्थकृद्वासुदेवयोः ॥ ३९४ ॥ तदस्यामवसर्पिण्यां, षष्टिर्देहाः प्रकीर्त्तिताः । त्रिषष्टेः शलाकापुंसामेकोनषष्टिरङ्गिनः ॥ ३९५ ॥ भीमावलिर्जितशत्रुः रुद्रो विश्वानलोऽपि च । सुप्रतिष्ठः पञ्चमः स्याद्भवेत् षष्ठोऽचलह्वयः ॥ ३९६ ॥ पुण्डरीको जितधरो जितनाम स्तथाऽपरः । पेढालः सत्यकिश्चेति रुद्रा एकादशोदिता: ।। ३९७ ।। गतौ रुद्रावादितो द्वौ, सप्तर्मी नरकावनीम् । ततः क्रमात्पञ्च षष्ठीमष्टमः पञ्चर्मी भुवम् ॥ ३९८ ॥ तुर्यां च नवमदशमौ, तृतीयां नरकक्षितिम् । एकादशो जगामेति, नवमे पूर्व ईरितम् ॥ ३९९ ॥ आद्यो वृषभवारेऽभूद्, द्वितीयोऽजितवारके । अष्टानामर्हतां तीर्थेष्वष्टौ च पुष्पदन्ततः ॥ ४०० ॥ एकादशः सत्यकिश्च, तीर्थे वीरजिनेशितुः । तीर्थव्यक्तिः प्रतिहरिबलानां वासुदेववत् ॥ ४०१ ॥ त्रिषष्टिरेते कथिताः शलाकापुमांस ऐश्वर्यगुणाभिरामाः ।
क्षेत्रे किलास्मिन् भरतेऽत्र कालेऽवसर्पिणीनामनि नाममात्रात् ॥ ४०२ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः प्रथितो निसर्गसुभगः सर्गस्त्रयस्त्रिंशतः ॥ ४०३ ॥ ॥ इति श्रीलोकप्रकाशे त्रयस्त्रिंशत्तमः सर्गः समाप्तः ॥
◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆
॥ अथ चतुस्त्रिंशत्तमः सर्गः ॥
इत्यस्यामवसर्पिण्यां, यथोक्ता उत्तमा नराः । वाच्यास्तथाऽवसर्पिण्युत्सर्पिणीष्वखिलासु ते ॥ १ ॥ स्यातां किन्त्ववसर्पिण्यामादिमा जिनचक्रिणौ । तृतीयारकपर्यन्ते परे तुर्यारकेऽखिलाः ॥२॥ उत्सर्पिण्यां तु सर्वेऽमी, स्युस्तृतीयारके क्रमात् । परं तुर्यारकस्यादावन्तिमौ जिनचक्रिणौ ॥३॥ या दृश्यन्तेऽवसर्पिण्यामायुर्देहादिका स्थितिः । उत्सर्पिणीमुखे तादृग्, जिनचक्रयादिदेहिनाम् ॥ ४ ॥ भाव्यमेवं प्रातिलोम्यं, पदार्थेष्वखिलेष्वपि । उत्सर्पिण्यवसर्पिण्योर्व्यक्त्या तु कियदुच्यते ॥ ५ ॥ अथ प्रकृतं—इत्येवमवसर्पिण्यां, दुःषमसुषमारके । पूर्णे सति प्रविशति, पञ्चमो दुःषमारकः ॥ ६ ॥