________________
662
अस्मिन् कालेऽपि पूर्वोक्तं, भूमिवृक्षादिवर्णनम् । अनुसंधीयतां किंत्वनन्तजन्यूनपर्यवम् ॥७॥ स्यात्संहननमत्रादौ संस्थानमपि षड्विधम् । व्यवच्छेदे क्रमादेकं, सेवार्त्तमवतिष्ठते ॥८॥ यथाऽस्यामवसर्पिण्यामरेऽस्मिन् प्रथमं गतं । दिवं गते स्थूलभद्रे, वज्रौ तच्चतुष्टयम् ॥९॥ त्रिंशमब्दशतं चायुः, स्यादत्रादौ शरीरिणाम् । कालक्रमाद्धीयमानमन्ते विंशतिवार्षिकम् ॥ १० ॥ सप्तहस्तमितं देहं, स्यादत्रादौ शरीरिणाम् । एकहस्तमितं चान्ते, हीयमानं यथाक्रमम् ॥ ११ ॥ चतुर्थारकजातानामिह मोक्षोऽपि संभवेत् । एतस्मिन्नरके जातजन्मनां तु भवेन्न सः ॥ १२ ॥ जाते तु निर्वाणोच्छेदे, संहननानुसारतः । शरीरिणो यथाकर्म, स्युश्चतुर्गतिगामिनः ॥ १३ ॥ दुर्लक्षणे पुत्र इव, वर्द्धमानेऽरकेऽत्र च । क्रमादुच्छेदमायान्ति, सद्भावाः केवलादयः ॥ १४ ॥ न मन:पर्यवज्ञानं, न चात्र परमावधि: । क्षपकोपशमश्रेण्यौ, नैवमाहारकं वपुः ॥ १५ ॥ लब्धि त्र पुलाकाख्या, नाप्यन्त्यं संयमत्रयम् । सामायिकं स्याच्छेदोपस्थापनीयं च कुत्रचित् ॥ १६ ॥ नात्र तादृग्लब्धिमन्तो, नार्हन्तो न च चक्रिणः । वासुदेवादयो नैव, शलाकापुरुषा इह ॥ १७ ॥ जातिस्मृत्यवधिज्ञानवैक्रियोद्भावनादयः । ये भावा अव्यवच्छिन्नास्तेऽपि कालानुभावतः ॥ १८ ॥ भवन्ति विरला एव, गुणा इव दुरात्मनि । आर्हतानामपीह स्युर्मतभेदो अनेकशः ॥ १९ ॥ जना: प्रायेण बहुलकषाया दुर्णयप्रियाः । अधर्मरागिणो धर्मद्रिष्टा मर्यादयोज्झिताः ॥ २० ॥ ग्रामा: श्मशानतुल्याः स्युामाभनगराणि च । कुटुम्बिनश्चेटतुल्या, राजानश्च यमोपमाः ॥ २१ ॥ वित्तं गृह्णान्ति लोभान्धा, महीपाला नियोगिनाम् । प्रजानां तेऽधमाश्चैवं, मात्स्यो न्यायः प्रवर्त्तते ॥ २२ ॥ उत्तमा मध्यमाचारा, मध्यमाश्चान्त्यचेष्टिताः । विसंस्थुलाश्च देशाः स्युर्दुर्भिक्षाद्यैरुपद्रवैः ॥ २३ ॥ मितं वर्षति पर्जन्यो, न वर्षत्यपि कर्हिचित् । वर्षत्यकाले काले च, न जनैः प्रार्थितोऽपि सः ॥ २४ ॥ अन्नं निष्पद्यतेऽनेकैरुपायैः सेचनादिभिः । निष्पन्नमपि तत्कीरशलभायैर्विनश्यति ॥२५॥ वदान्या धार्मिका न्यायप्रियास्ते निर्धना जनाः । अनीतिकारिणो दुष्टाः, कृपणाश्च धनैर्भूताः ॥ २६ ॥ निर्धना बहुपत्याः स्युर्धनिनोऽपत्यवर्जिताः । आढ्य मन्दाग्नयो रुग्णा, दृढाग्न्यङ्गाश्च दुर्विधाः ॥ २७ ॥ दृढाङ्गा नीरुजो मूर्खाः, कृशाङ्गाः शास्त्रवेदिनः । विलसन्ति खलाः स्वैरं, प्रायः सीदंति साधवः ॥ २८ ॥ अतिवृष्टिरवृष्टिश्च, मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च, स्युर्भूम्नेतीतयो भुवि ॥ २९ ॥ रात्रौ चौरा: पीडयन्ति, प्रजां भूपा: करैर्दिवा । नीरसामपि शैलक्ष्मामिव दावाग्निभानवः ॥ ३० ॥ आधिकारिण एव स्युनृपाणामधिकारिणः । लञ्चासेवादिभिर्वश्या न्यायमार्गानपेक्षिणः ॥ ३१ ॥ नृपा मिथ्यादृशो हिंसा, मृगयादिषु तत्पराः । विप्रादयोऽपि लोभान्धा, लोकानां विप्रलम्भकाः ॥ ३२ ॥ असंयता अविरता, नानाऽनाचारसेविन: । गुरुंमन्यास्तेऽपि विप्राः, पूज्यन्ते भूरिभिर्जनैः ॥ ३३ ॥