________________
659
प्रतीकाराय तेनास्याः, सर्वथा प्रयतामहे । पद्मादयोऽपि चक्रुस्तांस्तेऽभवन् किन्तु निष्फलाः ॥ ३४२ ॥ पद्मे निराशे खिन्नेऽथ, प्रतिचन्द्राभिधो निशि । एत्य विद्याधरोऽवादीत्सौमित्रेीवनौषधम् ॥ ३४३ ॥ विशल्यास्नाननीरेणाभूवं शल्योज्झितः पुरा । तत्कार्यसिद्धिर्युष्माकं, तेनावश्यं भविष्यति ॥ ३४४ ॥ अस्ति मातुलपुत्री . सा, भरतस्य महीपतेः । ततो युष्मदधीनैव, द्रोणमेघनृपात्मजा ॥ ३४५ ॥ ततो भामण्डलहनूमदाद्याः खेचरेश्वराः । लब्धोपाया विमानेन, द्राम्जग्मुनिशि कोशलाम् ॥ ३४६ ॥ भरतं च पुरस्कृत्य, पुरे कौतुकमङ्गले । गत्वा द्रोणमयाचन्त, विशल्यां कन्यकां ततः ॥ ३४७ ॥ सह कन्यासहस्रेण, ददौ सौमित्रये तदा । विशल्यां द्रोणमेघो यद्रत्नं रत्नेन योज्यते ॥ ३४८ ॥ समादाय विशल्यां ते, निशाशेषेऽथ खेचराः । पद्मं पश्यन्तमध्वानं, दीनाननममूमुदन् ॥ ३४९ ॥ विशल्यापाणिसंस्पर्शाल्लक्ष्मणस्याङ्गतो द्रुतम् । निरगात्सा महाशक्तिमन्त्रान्नागीव वेश्मतः ॥ ३५० ॥ हनूमता सा निर्यान्ती, धृता हस्तेऽब्रवीदिति । अमोघविजयाख्याऽहं, महाशक्तिर्महामते ! ॥ ३५१॥ धरणेन्द्रेण दत्ताऽस्मै, रावणायोग्रभक्तये । प्रज्ञप्त्या भगिनी देवस्यापि लग्ना सुदुःसहा ॥ ३५२ ॥ विशल्यया भवे पूर्वे, कृतानां तपसां महत् । तेजः सोढुमनीशाऽस्मि, द्रुतं गच्छामि मुञ्च माम् ॥ ३५३ ॥ पटूभूतोऽथ सौमित्रिः, प्रात: पद्मानुशासनात् । सह कन्यासहस्रेणोद्वहति स्म विशल्यकाम् ॥ ३५४ ॥ पुनः प्रवृत्ते संग्रामे, सौमित्रिदशकण्ठयोः । मुमोच रावणश्चक्रं, लक्ष्मणस्य जिघांसया ॥ ३५५ ॥ तत्तु प्रदक्षिणां कृत्वा, सौमित्रेर्दक्षिणं करम् । अलञ्चक्रे वशीभूतं, चिरपालितपक्षिवत् ॥ ३५६ ॥ सचक्रं चूर्णयिष्यामीत्युन्माद्यन्तं दशाननम् । चक्रे तेनैव चक्रेण, विष्णुः पाटितवक्षसम् ॥ ३५७ ॥ ततश्च ज्येष्ठबहुलैकादश्यामपराहके । यामे तृतीये नरकं, चतुर्थं रावणो ययौ ॥ ३५८ ॥ लझराज्येऽभिषिच्याथ, पद्मराजो बिभीषणम् । सीतामादाय सौमित्रसेवितः कोशलां ययौ ॥ ३५९ ॥ तत्र त्रिखण्डभूपालैरभिषिक्तः सुरैरपि । लक्ष्मणो वासुदेवत्वे, बलत्वे पद्मभूपतिः ॥ ३६० ॥ द्वादशाब्दसहस्रायुस्तुङ्गश्चापानि षोडश । अष्टमो वासुदेवोऽयमुक्तः पद्मानुजः श्रुते ॥ ३६१ ॥
इति लक्ष्मणः॥ गङ्गदत्तो वणिग्मातुरपमानादिरागवान् । द्रुमसेनर्षिपादान्ते, प्रव्रज्यां प्रतिपन्नवान् ॥ ३६२ ॥ निदानं चकृवानेवं, सोऽन्यदा हस्तिनापुरे । भूयासं तपसाऽनेन, जनानां वल्लभो भृशम् ॥ ३६३ ॥ ततः स्वर्गे महाशुक्रे, स संजातः समाधिना । वृन्दारको महासौख्यो, महाकान्तिर्महास्थितिः ॥ ३६४ ॥ इतश्च मथुरापुर्या, हरिवंशे नृपोऽभवत् । बृहद्बलाढयस्तस्य, तनयो यदुसंज्ञकः ॥ ३६५ ॥ तत्सुतो भूपतिः शूरस्तस्याभूतामुभौ सुतौ । नृपौ शौरिसुवीराख्यौ, जाग्रन्नीतिपराक्रमौ ॥ ३६६ ॥ शूरः शौरिं न्यस्य राज्ये, व्रते प्रववृत्ते स्वयम् । ततः शौरि: कनिष्ठाय, मथुराराज्यमार्पयत् ॥ ३६७ ॥