________________
658
अथो दशरथो भ्राम्यन्नयासीदुत्तरापथे । स्वयंवरोत्सवोद्रङ्गे, द्रङ्गे कौतुकमङ्गले ॥ ३१५ ॥ पतिंवरां पर्यणैषीद्राज्ञः शुभमतेः सुताम् । अद्भुतां तत्र कैकेयीं, द्रोणमेघसहोदरीम् ॥ ३१६ ॥ अस्मासु सत्सूद्धहति, कन्यां कार्पटिकः कथम् । इतीjया प्रववृते, योध्धुं शेषनृपव्रजः ॥ ३१७ ॥ कैकेय्या सारथित्वेन, कृतसाहाय्यको नृपः । प्रतिपक्षान् पराजिग्ये, कैकेय्यै च वरं ददौ ॥ ३१८ ॥ कैकेयीं परिणीयाथ बलैकैर्महाबलः । जग्राह नगरं राजगृहं निर्जित्य तत्प्रभुम् ॥ ३१९ ॥ लङ्केश्वरभयात्तत्र, तस्थुषोऽस्य महीपतेः । चतुर्दिग्जैत्रदोर्वीर्याश्चत्वारोऽथाभवन् सुताः ॥ ३२० ॥ तत्रापराजिता देवी, हर्यक्षेभेन्दुभास्करैः । तनयं सूचितं स्वप्नैर्बलं पद्ममजीजनत् ॥ ३२१ ॥ स्वर्गात्सनत्कुमाराख्याच्व्युत्वा जीव: पुनर्वसोः । समुत्पेदे सुमित्रायाः, कुक्षावक्षामभाग्यभूः ॥ ३२२ ॥ सिंहेभसूर्यचन्द्राग्निश्रीवार्द्धिस्वप्नसूचितं । नारायणाभिधं विष्णुं, सुमित्रा सुषुवे सुतम् ॥ ३२३ ॥ सुतं चासूत कैकेयी, भरतं भरतोपमम् । प्रासूत सुप्रभा पुत्रं, शत्रुजं शत्रुखण्डनम् ॥ ३२४ ॥ जीवोऽथानङ्गसुंदर्याश्च्युत्वा कल्पात्तृतीयकात् । पल्या प्रियंकरानाम्न्यां, द्रोणमेघस्य भूपतेः ॥ ३२५ ॥ सुताऽभवद्धिशल्याख्या मातुाधिं चिरंतनम् । या जहारागता गर्भ, जाता सा निरुपद्रवा ॥ ३२६ ॥ प्राक् तप्ततपसोऽमुष्याः, नानाम्भोभिर्जनेऽभवत् । व्रणसंरोहणं शल्यापहारो रोगसंक्षयः ॥ ३२७ ॥ राज्याभिषेकायाहूतं, रामं दशरथोऽप्यथ । विससर्ज वनायाऽऽतः, कैकेयीवरयाञ्चया ॥ ३२८ ॥ सह लक्ष्मणसीताभ्यां, पद्मस्य वनमीयुषः । जहार रावण: सीतां, छलात्सूर्पणखोदिताम् ॥ ३२९ ॥ ज्ञातसीताव्यतिकरौ, पद्मनारायणावथ । विद्याधराधिपैनैकै, सुग्रीवादिभिराश्रितौ ॥ ३३० ॥ गत्वा नभोऽध्वना लो, मानिना दशमौलिना । योद्धं प्रववृताते तौ, शत्रुप्राणापहारिणौ ॥ ३३१ ॥ अथात्यन्तं हितोऽवादीद्दशवक्त्रं बिभीषणः । मन्त्र्यादीभिर्हितैनीतिशास्त्रविज्ञैः समन्वितः ॥ ३३२ ॥ कार्षीरनीतिं मा भ्रातर्द्राक् प्रत्यर्पय जानकीम् । आतिथेयीयमेवास्तु, रामस्याभ्यागतस्य नः ॥ ३३३ ॥ यम एवास्य मच्छनोरातिथैयीं करिष्यति । एतद्गृह्यो वदन्नेवं, त्वमप्येनमनुव्रज ॥ ३३४ ॥ इतिनिर्भसितो बाढं, भ्रात्रा दुर्नयकारिणा । रामं बिभीषणो न्याय्यं, शिश्राय प्राग्जनु:सुहृत् ॥ ३३५॥ जायमानेऽथ संग्रामे, दशमौलिबिभीषणम् । हन्तुं युद्ध्यन्तमझेप्सीच्छक्तिं सद्योऽरिघातिनीम् ॥ ३३६ ॥ सौमित्रिमवदद्रामस्तदाऽयं हन्यते हहा । बिभीषणः संश्रितोऽस्मान्, धिग् नः संश्रितघातिनः ॥ ३३७ ॥ लक्ष्मणः पुरतो गत्वा, पृष्ठे कृत्वा बिभीषणम् । आचिक्षेप दशग्रीवं, क्रुद्धः सोऽप्येवमाह तम् ॥ ३३८ ॥ नोत्क्षिप्ता शक्तिरेषा त्वत्कृते किं म्रियसे मुधा ?। अन्यस्य मृत्युना यदा, मार्य एव त्वमप्यसि ॥ ३३९ ॥ तया च भिन्नहृदयः, सौमित्रिभूतलेऽपतत् । मूछितो मृतवत्पद्मसैन्ये शोको महानभूत् ॥ ३४० ॥ पद्मं बिभीषणोऽथोचे, किमधैर्यमिदं प्रभो । शक्त्याऽनया हतो रात्रिमेकां जीवति यत्पुमान् ॥ ३४१ ॥