Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 675
________________ 658 अथो दशरथो भ्राम्यन्नयासीदुत्तरापथे । स्वयंवरोत्सवोद्रङ्गे, द्रङ्गे कौतुकमङ्गले ॥ ३१५ ॥ पतिंवरां पर्यणैषीद्राज्ञः शुभमतेः सुताम् । अद्भुतां तत्र कैकेयीं, द्रोणमेघसहोदरीम् ॥ ३१६ ॥ अस्मासु सत्सूद्धहति, कन्यां कार्पटिकः कथम् । इतीjया प्रववृते, योध्धुं शेषनृपव्रजः ॥ ३१७ ॥ कैकेय्या सारथित्वेन, कृतसाहाय्यको नृपः । प्रतिपक्षान् पराजिग्ये, कैकेय्यै च वरं ददौ ॥ ३१८ ॥ कैकेयीं परिणीयाथ बलैकैर्महाबलः । जग्राह नगरं राजगृहं निर्जित्य तत्प्रभुम् ॥ ३१९ ॥ लङ्केश्वरभयात्तत्र, तस्थुषोऽस्य महीपतेः । चतुर्दिग्जैत्रदोर्वीर्याश्चत्वारोऽथाभवन् सुताः ॥ ३२० ॥ तत्रापराजिता देवी, हर्यक्षेभेन्दुभास्करैः । तनयं सूचितं स्वप्नैर्बलं पद्ममजीजनत् ॥ ३२१ ॥ स्वर्गात्सनत्कुमाराख्याच्व्युत्वा जीव: पुनर्वसोः । समुत्पेदे सुमित्रायाः, कुक्षावक्षामभाग्यभूः ॥ ३२२ ॥ सिंहेभसूर्यचन्द्राग्निश्रीवार्द्धिस्वप्नसूचितं । नारायणाभिधं विष्णुं, सुमित्रा सुषुवे सुतम् ॥ ३२३ ॥ सुतं चासूत कैकेयी, भरतं भरतोपमम् । प्रासूत सुप्रभा पुत्रं, शत्रुजं शत्रुखण्डनम् ॥ ३२४ ॥ जीवोऽथानङ्गसुंदर्याश्च्युत्वा कल्पात्तृतीयकात् । पल्या प्रियंकरानाम्न्यां, द्रोणमेघस्य भूपतेः ॥ ३२५ ॥ सुताऽभवद्धिशल्याख्या मातुाधिं चिरंतनम् । या जहारागता गर्भ, जाता सा निरुपद्रवा ॥ ३२६ ॥ प्राक् तप्ततपसोऽमुष्याः, नानाम्भोभिर्जनेऽभवत् । व्रणसंरोहणं शल्यापहारो रोगसंक्षयः ॥ ३२७ ॥ राज्याभिषेकायाहूतं, रामं दशरथोऽप्यथ । विससर्ज वनायाऽऽतः, कैकेयीवरयाञ्चया ॥ ३२८ ॥ सह लक्ष्मणसीताभ्यां, पद्मस्य वनमीयुषः । जहार रावण: सीतां, छलात्सूर्पणखोदिताम् ॥ ३२९ ॥ ज्ञातसीताव्यतिकरौ, पद्मनारायणावथ । विद्याधराधिपैनैकै, सुग्रीवादिभिराश्रितौ ॥ ३३० ॥ गत्वा नभोऽध्वना लो, मानिना दशमौलिना । योद्धं प्रववृताते तौ, शत्रुप्राणापहारिणौ ॥ ३३१ ॥ अथात्यन्तं हितोऽवादीद्दशवक्त्रं बिभीषणः । मन्त्र्यादीभिर्हितैनीतिशास्त्रविज्ञैः समन्वितः ॥ ३३२ ॥ कार्षीरनीतिं मा भ्रातर्द्राक् प्रत्यर्पय जानकीम् । आतिथेयीयमेवास्तु, रामस्याभ्यागतस्य नः ॥ ३३३ ॥ यम एवास्य मच्छनोरातिथैयीं करिष्यति । एतद्गृह्यो वदन्नेवं, त्वमप्येनमनुव्रज ॥ ३३४ ॥ इतिनिर्भसितो बाढं, भ्रात्रा दुर्नयकारिणा । रामं बिभीषणो न्याय्यं, शिश्राय प्राग्जनु:सुहृत् ॥ ३३५॥ जायमानेऽथ संग्रामे, दशमौलिबिभीषणम् । हन्तुं युद्ध्यन्तमझेप्सीच्छक्तिं सद्योऽरिघातिनीम् ॥ ३३६ ॥ सौमित्रिमवदद्रामस्तदाऽयं हन्यते हहा । बिभीषणः संश्रितोऽस्मान्, धिग् नः संश्रितघातिनः ॥ ३३७ ॥ लक्ष्मणः पुरतो गत्वा, पृष्ठे कृत्वा बिभीषणम् । आचिक्षेप दशग्रीवं, क्रुद्धः सोऽप्येवमाह तम् ॥ ३३८ ॥ नोत्क्षिप्ता शक्तिरेषा त्वत्कृते किं म्रियसे मुधा ?। अन्यस्य मृत्युना यदा, मार्य एव त्वमप्यसि ॥ ३३९ ॥ तया च भिन्नहृदयः, सौमित्रिभूतलेऽपतत् । मूछितो मृतवत्पद्मसैन्ये शोको महानभूत् ॥ ३४० ॥ पद्मं बिभीषणोऽथोचे, किमधैर्यमिदं प्रभो । शक्त्याऽनया हतो रात्रिमेकां जीवति यत्पुमान् ॥ ३४१ ॥

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738