Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 674
________________ 657 बाहुमूले निक्षिप्य यथाऽभ्राम्यस्त्वमम्बुधीन् । तथा त्वां साद्रिमुत्क्षिप्य लवणाब्धौ क्षिपाम्यहम् ॥ २८९ ॥ इत्युदीर्य विदार्य क्ष्मामष्टापदगिरेस्तले । प्रविश्य युगपद्विद्यासहस्रं मनसि स्मरन् ॥ २९० ॥ धराधरं तमुद्दध्रे, चलयन्नचलातलम् । झलज्झालायिताम्भोधि, पतगिरिशिरः शतम् ॥ २९१ ॥ अद्याप्ययं मयि क्रोधादनर्थं कुरुते हहा । मा भूद्भरतचैत्यानां भ्रंशोऽन्तरिति चिन्तयन् ॥ २९२ ॥ अवधिज्ञानवान्नानालब्धिर्वाली महामुनि: । गतस्पृहः शरीरेऽपि चैत्यत्राणाय केवलम् ॥ २९३ ॥ अपीडयत्पदाङ्गुष्ठाग्रेणाष्टापदभूमिकाम् । तेनाक्रान्तश्च भारार्त्तकन्धरो दशकन्धरः ॥ २९४ ॥ भयार्त्तः संकुचिद्गात्रो, रावयन् सकलां महीम् । आरावीद्भृशमाक्रन्दैस्ततोऽभूद्रावणाह्वयः ॥ २९५ ॥ अभूतां सोदरावस्य, भानुकर्णबिभीषणौ । स्वसा चन्द्रणखा पट्टराज्ञी मन्दोदरीति च ॥ २९६ ॥ भानुकर्णस्य कुम्भकर्ण इति, चन्द्रणखायाः सूर्पणखेति च नामान्तरं । 1 धनदत्तवसुदत्तसुहृद्यो ब्राह्मणः पुरा । आसीन्नाम्ना याज्ञवल्क्यः क्रमात्सोऽभूद्विभीषणः ॥ २९७ ॥ निहतः शम्भुना राज्ञा, श्रीभूतिर्यः पुरोहितः । शुभध्यानात्स चोत्पेदे, स्वर्गे च्युत्वा ततोऽभवत् ॥ २९८ ॥ सुप्रतिष्ठपुरे विद्याधरो नाम्ना पुनर्वसुः । द्वासप्ततिकलाशाली, चतुरः सुभगः सुधीः ॥ २९९ ॥ स चैकदा त्रिभुवनानन्दस्य चक्रवर्त्तिनः । सुतां कामवशो जह्रे, नामतोऽनङ्गसुदरीम् ॥ ३०० ॥ पुण्डरीकाख्यविजयाद्गच्छन्निजपुरीं प्रति । चक्रभृत्प्रहितैर्विद्याधरैः स रुरुधे युधे ॥ ३०१ ॥ विद्यास्त्रैर्विविधैर्नागतार्थ्याम्भोदानिलादिभिः । एतस्य युद्ध्यमानस्य, वैराग्यात्स्वविमानतः ॥ ३०२ ॥ क्वचिदननिकुज्जे सा, पपातानङ्गसुंदरी । विरराम ततो युद्धाद्धिरक्तात्मा पुनर्वसुः ॥ ३०३ ॥ समुद्रगुरुपादान्ते, ततः स्वीकृत्य संयमम् । काश्यां गतोऽन्यदाऽकार्षीन्निदानमिति चेतसा ॥ ३०४ ॥ अभविष्यं भवेऽस्मिंश्चेच्चक्रिणोऽर्द्धबलोऽप्यहम् । तन्मत्तश्चक्रिसैन्यार्त्याऽयास्यन्नानङ्गसुंदरी ॥ ३०५ ॥ भवान्तरेऽपि भूयासं, तपसानेन तादृशः । तथा प्राणप्रिया भूयात्, सैषा मेऽनङ्गसुंदरी ॥ ३०६ ॥ पुनर्वसुस्ततो जातः, सुरः स्वर्गे तृतीयके । चारित्रोपार्जितं तत्र, बुभुजे शं यथास्थिति ॥ ३०७ ॥ अतितीव्रं तपोऽकार्षीद्धनस्थानङ्गसुंदरी । विहितानशना चान्ते, जग्रसेऽजगरेण सा ॥ ३०८ ॥ ततः समाधिना मृत्वा, देवलोके तृतीयके । सुरत्वेन समुत्पेदे, बुभुजे चाद्भुतं सुखम् ॥ ३०९ ॥ इतश्च–नैमित्तिकोक्त्या स्ववधं, ज्ञात्वा दशरथात्मजात् । प्रैषीद्दशरथं हन्तुं, दशग्रीवो बिभीषणम् ।। ३१० ।। नारदर्षिर्दशरथभूभुजे द्राक् सधर्मणे । अजिज्ञपद्दशग्रीवसंसद्याकर्ण्य तां कथाम् ॥ ३११ ॥ श्रुत्वा दशरथोऽप्येवमयोध्याया विनिर्ययौ । समर्प्य मन्त्रिणे राज्यं, वेषान्तरतिरोहितः ॥ ३१२ ।। मूर्त्तिं दशरथस्याथ, कृत्वा लेप्यमय सुधीः । वेश्मन्यस्थापयन्मन्त्री, राज्ञः प्रख्यापयन् रुजम् ॥ ३१३ ॥ बिभीषणोऽपि तत्रैत्य, संरंभात्तमसि स्थिताम् । तन्मूर्ति लेप्यजां हत्वा कृतकृत्यो न्यवर्त्तत ॥ ३१४ ॥

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738