Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
620
कुमारत्वे सहस्राणि, पूर्वाणां पञ्चविंशतिः । पञ्चाशच्च सहस्राणि, पूर्वाणां राज्यवैभवम् ॥ ५११ ॥ व्रते पूर्वसहस्राणि, पूर्णानि पञ्चविंशतिः । सर्वमायुः पूर्वलक्षं, छाास्थ्यं च त्रिमासिकम् ॥ ५१२ ॥ शुक्लप्रभाख्या शिबिका, प्रथमां पारणां ददौ । पुनर्वसू रिष्टपुरे, प्लक्षो ज्ञानद्रुमः प्रभोः ॥ ५१३ ॥ एकाशीतिर्गणधरा, लक्षमेकं च साधवः । आर्या: षट्काधिकं लक्षमेकं साध्योऽभवन् विभोः ॥ ५१४ ॥ लक्षद्धयं श्रावकाणां, नवाशीतिसहस्रयुक् । सहस्राण्यष्टपञ्चाशच्चतुर्लक्षी तथाऽऽस्तिकाः ॥ ५१५ ॥ सर्वज्ञानां सहस्राणि, सप्त चेतोविदां पुनः । सहस्रा: सप्त कथिता, अधिकाः पञ्चभिः शतैः ॥ ५१६ ॥ द्विसप्ततिः शतान्यासन्नवधिज्ञानशालिनाम् । चतुर्दशपूर्वभृतां, चतुर्दश शतानि च ॥५१७ ॥ लसबैक्रियलब्धीनां, द्वादशैव सहस्रका: । सहस्राः पञ्चसंयुक्ता, वादिनामष्टभिः शतैः ॥ ५१८ ॥ धनूंषि नवतिदेहो, नन्दो मुख्यो गणाधिपः । प्रवर्तिनी च सुयशा, भक्तः सीमन्धरो नृपः ॥ ५१९ ॥ ब्रह्मा यक्षश्चतुर्वक्त्रः, श्वेतवर्णस्त्रिलोचनः । पद्मासनो दिशोऽष्टापि, पालयन्नष्टभिर्भुजैः ॥ ५२० ॥ मुद्गरं मातुलिङ्गं च, पाशकं चाभयं तथा । अपसव्ये दधात्येष, स्पष्टं पाणिचतुष्टये ॥ ५२१ ॥ नकुलं च गदामेवमडशं चाक्षसूत्रकम् । दधाति धीरधुर्योऽयं, वामे पाणिचतुष्टये ॥ ५२२ ॥ देव्यशोका नीलवर्णा, पद्मासीना चतुर्भुजा । दधाना वरदं पाशमपसव्यकरदये ॥ ५२३ ॥ वामपाणिद्रये चैषा, दधती फलमडूशम् । शीतलप्रभुभक्तानां, वितनोति समीहितम् ॥ ५२४ ॥
इति श्रीशीतलः ॥ बभूव पुष्करद्वीपे, विजये रमणीयके । प्राग्विदेहे शुभापुर्यां, नलिनीगुल्मभूपतिः ॥ ५२५ ॥ वज्रदत्तगुरोः पार्श्व, स स्वीकृत्य व्रतं सुधीः । देवोऽभूदच्युतस्वर्ग, द्वाविंशत्यर्णवस्थितिः ॥ ५२६ ॥ शून्यदेशे सिंहपुस्, प्रेयस्यां विष्णुभूपतेः । विष्णुनाम्न्यां सुतो जज्ञे, श्रेयांस इति विश्रुतः ॥ ५२७ ॥ ज्येष्ठस्य श्यामला षष्ठी, द्वादशी च त्रयोदशी । फाल्गुनस्यासिते माघमासस्य च कुहूः किल ॥ ५२८ ॥ तृतीया श्रावणे कृष्णा, कल्याणकदिनाः प्रभोः । चतुर्बु श्रवणं धिष्ण्यं, धनिष्ठा पञ्चमे पुनः ॥ ५२९ ॥ गर्भ स्थितिः प्रभोर्मासा, नव षड्वासराधिकाः । खड्गी जीवः प्रभोर्लक्ष्म, राशिर्मकरसंज्ञकः ॥ ५३० ॥ चतुरशीत्याब्दलझैः, पूर्वोक्ताब्दैः शतेन च । अब्धीनामूनया वार्चिकोट्या शीतलनिवृतेः ॥ ५३१ ॥ श्रेयांसस्याभवज्जन्म, तदा तुर्यारकस्य च । शिष्यते स्मार्णवशतं, स्वायुःपूर्वोक्तवर्षयुक् ॥ ५३२ ॥ शय्यामाक्रामत्सुराधिष्ठितां गर्भस्थिते प्रभौ । निर्विजमम्बेत्यथवा, श्रेयस्कृतत्वात् तथाह्वयः ॥ ५३३ ॥ कुमारत्वेऽब्दलक्षाणि, निर्दिष्टान्येकविंशतिः । द्विचत्वारिंशदब्दानां, लक्षाणि राज्यवैभवे ॥ ५३४ ॥ लक्षाणि व्रतपर्याये, वर्षाणामेकविंशतिः । एवं लक्षाणि चतुरशीतिः सर्वायुराहितम् ॥ ५३५ ॥ छाग्रस्थ्यं मासयोर्युग्मं, शिबिका विमलप्रभा । सिद्धार्थाख्यपुरे नन्दः, पारणां प्रथमां ददौ ॥ ५३६ ॥

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738