Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
639
एवं विजहूर्वृषभनेमिपार्श्वजिनेश्वराः । आर्यानार्येषु शेषास्तु, सदार्येष्वेव विंशतिः ॥ ९७३ ॥ एकोनत्रिंशतं वर्षाण्यध्य न्यन्तिमो जिनः । पक्षोनानि च सर्वज्ञपर्यायं पर्यपूरयत् ॥ ९७४ ॥ बभार व्रतपर्यायं, द्विचत्वारिंशदब्दकम् । एवं द्विसप्ततिवर्षाण्यायुः सर्वमभूद्विभोः ॥ ९७५ ॥ __अयं कल्पसूत्राद्यभिप्राय:, समवायाङ्गे तु साधिकानि द्विचत्वारिंशद्वर्षाणि व्रतपर्याय:, साधिकानि
द्विसप्ततिवर्षाणि सर्वायुरित्युक्तमिति ज्ञेयं । तपो वृषभतीर्थेऽभूदुत्कृष्टं वार्षिकं तथा । पाण्मासिकं वीरतीर्थ, शेषेषु चाष्टमासिकम् ॥ ९७६ ॥ प्रमादकालोऽहोरात्रप्रमितो वृषभेशितुः । अन्तर्मुहूर्त वीरस्य, शेषाणां स न विद्यते ॥९७७ ॥ श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः । द्वाविंशतेश्च शेषाणामुपसर्गा न जज्ञिरे ॥ ९७८ ॥ शक्रन्यस्तं देवदूष्यं, स्कन्धे वृषभवीरयोः । संवत्सरं सातिरेकं, शेषाणां सर्वदा स्थितम् ॥ ९७९ ॥
अत्र श्रीजम्बूदीपप्रज्ञप्तिसूत्रे श्रीवृषभदेवस्य श्रीकल्पसूत्रे श्रीमहावीरस्य साधिक वर्ष देवदूष्यस्थितिरुक्ता, श्रीसप्ततिशतस्थानकग्रन्थे [श्लो. १५८] च–“सक्को य लक्खमुलं सुरदूसं
ठवइ सम्वजिणखंधे । वीरस्स वरिसमहिअं सयावि सेसाण तस्स ठिई” ॥ इत्युक्तमिति ज्ञेयं ॥ चन्द्रप्रभाख्या शिबिका, बहुलो भैक्ष्यमादिमम् । कोल्लाकसन्निवेशेऽदात्, सालो ज्ञानतरुः प्रभोः ॥ ९८० ॥ अष्टाद्यास्तद्भवे सिद्धा, अर्हत्प्रथमभैक्ष्यदाः । शेषास्तृतीये सेत्स्यन्ति, सिद्धाः केऽपि च तद्भवे ॥ ९८१ ॥ वासुपूज्यमल्लिनेमिपार्थवीरजिनेश्वराः । प्रवव्रजुर्वयस्यायेऽनुपात्तराज्यसंपदः ॥९८२ ॥ प्रवव्रजुर्भुक्ताराज्या:, शेषा वयसि पश्चिमे । मण्डलेशाः परे तेषु, चक्रिण: शान्तिकुंथ्वराः ॥ ९८३ ॥ अभोगफलकर्माणौ, मल्लिनेमिजिनेश्वरौ । निरीयतुरनुद्धाहौ, कृतोद्धाहाः परे जिनाः ॥ ९८४ ॥ सार्वभौमोऽभवत्पूर्व, श्रीनाभेयजिनेश्वरः । इतो भवे तृतीयेऽन्ये, जिनाः सर्वेऽपि पार्थिवाः ॥ ९८५ ॥
___ श्रीपार्थोऽपि तच्चरित्रानुसारेण चक्र्यासीदिति दृश्यते. सुमतिनित्यभक्तेन, मल्लिपाश्चौ कृताष्टमौ । चतुर्थन द्वादशान्ये, कृतषष्ठाः प्रवव्रजुः ॥ ९८६ ॥ वासुपूज्यः शतैः षड्भिर्मल्लिपाश्चौ त्रिभिः शतैः । एको वीरः सहनैश्च, चतुभिर्वृषभो नृणाम् ॥ ९८७ ॥ व्रतं भेजुः सहस्रेण, सह शेषा वृषध्वजः । विनीतायां द्वारिकायां, नेमिर्जन्मपुरेऽपरे ॥ ९८८ ॥ सिद्धार्थवन उद्याने, प्राव्राजीवृषभः प्रभुः । वने विहारगेहाख्ये, वासुपूज्यो जिनेश्वरः ॥ ९८९ ॥ श्रीधर्मो वप्रकाभिख्ये, विंशो नीलगुहाह्वये । श्रीपार्श्व आश्रमपदे, ज्ञातखण्डेऽन्तिमो जिनः ॥ ९९० ॥
१ तुर्याने विवक्षितं सर्व, अन्यत्र तु अल्पस्याविवक्षेति ।

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738