SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ 639 एवं विजहूर्वृषभनेमिपार्श्वजिनेश्वराः । आर्यानार्येषु शेषास्तु, सदार्येष्वेव विंशतिः ॥ ९७३ ॥ एकोनत्रिंशतं वर्षाण्यध्य न्यन्तिमो जिनः । पक्षोनानि च सर्वज्ञपर्यायं पर्यपूरयत् ॥ ९७४ ॥ बभार व्रतपर्यायं, द्विचत्वारिंशदब्दकम् । एवं द्विसप्ततिवर्षाण्यायुः सर्वमभूद्विभोः ॥ ९७५ ॥ __अयं कल्पसूत्राद्यभिप्राय:, समवायाङ्गे तु साधिकानि द्विचत्वारिंशद्वर्षाणि व्रतपर्याय:, साधिकानि द्विसप्ततिवर्षाणि सर्वायुरित्युक्तमिति ज्ञेयं । तपो वृषभतीर्थेऽभूदुत्कृष्टं वार्षिकं तथा । पाण्मासिकं वीरतीर्थ, शेषेषु चाष्टमासिकम् ॥ ९७६ ॥ प्रमादकालोऽहोरात्रप्रमितो वृषभेशितुः । अन्तर्मुहूर्त वीरस्य, शेषाणां स न विद्यते ॥९७७ ॥ श्रीवीरनेतुर्भूयांसः, श्रीपार्श्वस्य च तेऽल्पकाः । द्वाविंशतेश्च शेषाणामुपसर्गा न जज्ञिरे ॥ ९७८ ॥ शक्रन्यस्तं देवदूष्यं, स्कन्धे वृषभवीरयोः । संवत्सरं सातिरेकं, शेषाणां सर्वदा स्थितम् ॥ ९७९ ॥ अत्र श्रीजम्बूदीपप्रज्ञप्तिसूत्रे श्रीवृषभदेवस्य श्रीकल्पसूत्रे श्रीमहावीरस्य साधिक वर्ष देवदूष्यस्थितिरुक्ता, श्रीसप्ततिशतस्थानकग्रन्थे [श्लो. १५८] च–“सक्को य लक्खमुलं सुरदूसं ठवइ सम्वजिणखंधे । वीरस्स वरिसमहिअं सयावि सेसाण तस्स ठिई” ॥ इत्युक्तमिति ज्ञेयं ॥ चन्द्रप्रभाख्या शिबिका, बहुलो भैक्ष्यमादिमम् । कोल्लाकसन्निवेशेऽदात्, सालो ज्ञानतरुः प्रभोः ॥ ९८० ॥ अष्टाद्यास्तद्भवे सिद्धा, अर्हत्प्रथमभैक्ष्यदाः । शेषास्तृतीये सेत्स्यन्ति, सिद्धाः केऽपि च तद्भवे ॥ ९८१ ॥ वासुपूज्यमल्लिनेमिपार्थवीरजिनेश्वराः । प्रवव्रजुर्वयस्यायेऽनुपात्तराज्यसंपदः ॥९८२ ॥ प्रवव्रजुर्भुक्ताराज्या:, शेषा वयसि पश्चिमे । मण्डलेशाः परे तेषु, चक्रिण: शान्तिकुंथ्वराः ॥ ९८३ ॥ अभोगफलकर्माणौ, मल्लिनेमिजिनेश्वरौ । निरीयतुरनुद्धाहौ, कृतोद्धाहाः परे जिनाः ॥ ९८४ ॥ सार्वभौमोऽभवत्पूर्व, श्रीनाभेयजिनेश्वरः । इतो भवे तृतीयेऽन्ये, जिनाः सर्वेऽपि पार्थिवाः ॥ ९८५ ॥ ___ श्रीपार्थोऽपि तच्चरित्रानुसारेण चक्र्यासीदिति दृश्यते. सुमतिनित्यभक्तेन, मल्लिपाश्चौ कृताष्टमौ । चतुर्थन द्वादशान्ये, कृतषष्ठाः प्रवव्रजुः ॥ ९८६ ॥ वासुपूज्यः शतैः षड्भिर्मल्लिपाश्चौ त्रिभिः शतैः । एको वीरः सहनैश्च, चतुभिर्वृषभो नृणाम् ॥ ९८७ ॥ व्रतं भेजुः सहस्रेण, सह शेषा वृषध्वजः । विनीतायां द्वारिकायां, नेमिर्जन्मपुरेऽपरे ॥ ९८८ ॥ सिद्धार्थवन उद्याने, प्राव्राजीवृषभः प्रभुः । वने विहारगेहाख्ये, वासुपूज्यो जिनेश्वरः ॥ ९८९ ॥ श्रीधर्मो वप्रकाभिख्ये, विंशो नीलगुहाह्वये । श्रीपार्श्व आश्रमपदे, ज्ञातखण्डेऽन्तिमो जिनः ॥ ९९० ॥ १ तुर्याने विवक्षितं सर्व, अन्यत्र तु अल्पस्याविवक्षेति ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy