________________
640
सहस्राम्रवणे शेषाश्चतुर्भिर्मुष्टिभिस्तथा । नाभेयः कृतवान् लोचं, मुष्टिभि: पञ्चभिः परे ॥ ९९१ ॥ मल्लिश्रेयांससुमतिनेमिपार्श्वजिनेश्वराः । पूर्वा जगृहुर्दीक्षां, पश्चिमा परे जिनाः ॥ ९९२ ॥ आद्येनाद्यपारणायां, लब्धोऽब्देनैक्षवो रसः । परमान्नं द्वितीयेऽह्नि, लेभे सर्वैः परैर्जिनैः ॥ ९९३ ॥ बाल्ये सुधाभुज: सर्वे, शुद्धाहाराशिनो व्रते । आद्यः कल्पद्रुफलभुग्गार्हस्थ्येऽन्येऽन्नभोजिनः ॥ ९९४ ॥ विनीतायाः पुरः शाखापुरे पुरिमतालके । उद्याने शकटमुखे, वृषभ: प्राप केवलम् ।। ९९५ ।। बहिः श्रीजृम्भिकाग्रामादुपर्जुवालिकातटम् । केवलं प्राप वीरोऽन्ये, स्वस्वदीक्षावनेषु च ॥ ९९६ ॥ श्रीपार्श्वनेमिनाभेयमल्लीनामष्टमस्पृशाम् । केवलं वासुपूज्यस्य चतुर्थभक्तशालिनः ॥ ९९७ ॥ शेषाणां कृतषष्ठानामुत्पन्नं सन्नकल्मषम् । सर्वेषामपि पूर्वाह्न, पश्चिमाहेऽन्तिमप्रभोः ॥ ९९८ ॥ आद्ये समवसरणे, सर्वेषामर्हतामिह । उत्पन्नं तीर्थमन्त्यस्य, जिनेन्द्रस्य द्वितीयके ।। ९९९ ।। यावदुत्पद्यते तीर्थमग्रिमस्य जिनेशितुः । तावत्पूर्वस्य पूर्वस्य, भवेत्तीर्थमखण्डितम् ॥ १००० ॥ अस्यामवसर्पिण्यां तु—
आद्यात्सुविधिपर्यन्तं शान्तेश्चान्त्यजिनावधि । अष्टस्वष्टस्वन्तरेषु, तीर्थमासीन्निरन्तरम् ॥ १००१ ॥ मध्ये सप्तस्वन्तरेषु, नवमात्षोडशावधि । यावत्कालमभूत्तीर्थविच्छेदः स निरूप्यते ॥ १००२ ॥ पुष्पदन्तशीतलयोः, शीतलश्रेयसोरपि । एकैकः पल्यतुर्यांशस्तीर्थमत्रुट्यदन्तरे ।। १००३ ।। त्रयः पल्यचतुर्थांशाः, श्रेयांसवासुपूज्ययोः । वासुपूज्यविमलयोस्तुर्यः पल्योपमांशकः ॥ १००४ ॥ त्रयः पल्यस्य तुर्यांशा, विमलानन्तयोरपि । एकः पल्यचतुर्थांशो मध्ये चानन्तधर्मयोः ॥ १००५ ॥ एक: पल्यस्य तुर्यांशो, धर्मशान्त्योः किलान्तरे । केचित्पल्योपमान्याहुः, पल्यतुर्यांशकास्पदे ।। १००६ ॥ तथाहुः सप्ततिशतस्थानके — इगइगतिगेगतिगइग इगं सइइगारपलिअचउभागे । त पलिए सुविहाइसु सत्ततित्थन्ते ॥ [ श्लो. २१३ ]
दुष्षमारकपर्यन्तं, तीर्थं वीरजिनेशितुः । प्रवर्त्ततेऽव्यवच्छिन्नं, छिन्नजन्मजरामयम् ॥ १००७ ॥ द्वाविंशतिसहस्राब्दन्यूनैकपूर्वलक्षयुक् । तीर्थं वीरस्याब्धिकोटाकोटी नाभेयतीर्थतः ॥ १००८ ॥ कालमानमिदं चादिजिनतीर्थप्रवृत्तितः । श्रीवीरतीर्थपर्यन्तं यावद् ज्ञेयं विचक्षणैः ॥ १००९ ॥ उपसर्गास्तथा गर्भापहारोऽभाविता सभा । चमरोत्पतनं चन्द्रसूर्यावतरणं तथा ।। १०१० ॥ हरेरमरकङ्कायां गमनं स्त्रीजिनेश्वरः । हरिवंशकुलोत्पत्तिरर्चा चासंयतात्मनाम् ॥ १०११ ॥ साष्टकशतस्य सिद्धिर्ज्येष्ठावगाहनावताम् । अनंतकालभावीनि, दशाश्चर्याण्यमून्यहो ॥ १०१२ ॥ आद्यानि पञ्चाश्चर्याणि, तीर्थेऽन्त्यस्यापराणि तु । नेमिमल्लिशीतलश्रीसुविधिप्रथमार्हताम् ॥ १०१३ ॥ नाभेयोऽष्टापदे वीरोऽपापायां पुरि निर्वृतः । वासुपूज्यश्च चम्पाया, नेमी रैवतकाचले ॥ १०१४ ॥