________________
641
अन्ये सम्मेतशिखरे, पर्यङ्कासनसंस्थिताः । श्रीनेमिवीरवृषभाः, कायोत्सर्गासना: परे ॥ १०१५ ॥ आद्यः षड्भिरुपवासैर्द्धाभ्यां वीर: शिवं गतः । शेषा मासक्षपणेन, तपसा निर्वृतिं ययुः ॥ १०१६ ॥ आय: सहनैर्दशभिः, षड्भिस्तैर्विमलो जिनः । अनन्तजित्सप्तभिस्तैः, श्रीशान्तिनवभिः शतैः ॥ १०१७ ॥ सप्तमैकोनविंशो च, पञ्चभिः पञ्चभिः शतैः । सिद्धः पद्मप्रभः सार्धं, त्रिभिरष्टोत्तरैः शतैः ॥ १०१८ ॥ नेमिः षट्त्रिंशदधिकैः, साधूनां पञ्चभिः शतैः । षड्भिः शतैर्वासुपूज्यो, धर्मः साष्टशतेन च ॥ १०१९ ॥ त्रयस्त्रिंशत्साधुयुक्तः, पार्श्वनाथ: शिवं ययौ । एकाकी चरमः स्वामी, सहस्रेणान्विता: परे ॥ १०२० ॥ अष्टात्रिंशत्सहस्राणि, पञ्चाशीतिसमन्विता । चतुःशती जिनैः सार्धं, निर्वृताः सर्वसंख्यया ॥ १०२१ ॥ तृतीयषष्ठनवमद्वादशा अपराहके । शेषाः श्रेयांसपर्यंताः, पूर्वाहे वृषभादयः ॥ १०२२ ॥ धर्मारनमिवीराचापररात्रे शिवं गताः । शेषास्तु पूर्वरात्रेऽष्टौ, सिद्धा: श्रीविमलादयः ॥ १०२३ ॥ इंद्रभूतिरग्निभूतिर्वायुभूतिरमी त्रयः । सहोदरास्तथा व्यक्तसुधर्माणौ द्विजोत्तमौ ॥ १०२४ ॥ षष्ठो मण्डितपुत्राख्यो, मौर्यपुत्रश्च सप्तमः । अकम्पितोऽचलभ्राता, मेतार्यश्च प्रभासकः ॥ १०२५ ॥ अमी गणधरा एकादश श्रीचरमप्रभोः । अथैषां परिवारादिस्वरूपं किञ्चिदुच्यते ॥ १०२६ ॥ वसुभूतिसुताः पृथ्वीकुक्षिजाः प्रथमे त्रयः । पञ्चशिष्यशतोपेता, गौबरग्रामवासिनः ॥ १०२७ ॥ कोल्लाकाख्यसन्निवेशवास्तव्यौ तुर्यपञ्चमौ । वारुणीमातृकस्तत्र, तुरीयो धनमित्रभूः ॥ १०२८ ॥ पञ्चमो भद्दिलाकुक्षिरत्नं धम्मिलनन्दनः । उपास्यमानौ दावेतौ, शिष्याणां पञ्चभिः शतैः ॥ १०२९ ॥ तथा मौर्यसन्निवेशवासिनौ षष्ठसप्तमौ । धनदेवसुतः षष्ठः, सप्तमो मौर्यनन्दनः ॥ १०३० ॥ विजयातनुजौ सार्द्धशतत्रयपरिच्छदौ । देशाचारादविरुद्धा, पृथपितृकता तयोः ॥ १०३१ ॥ तत्र देशे कुले ह्यस्मिन्, मृते भर्तरि योषिताम् । आचीर्णत्वादविरुद्धो, धवान्तरपरिग्रहः ॥ १०३२ ॥ जयन्तीतनुजो देवनन्दनोऽकम्पिताद्वयः । मिथिलापुरवास्तव्यः, शतत्रयपरिच्छदः ॥ १०३३ ॥ नवमो कोशलावासी, नन्दाभूर्वसुवप्तृकः । तुङ्गिकाख्यसन्निवेशवास्तव्यो दशमो गणी ॥ १०३४ ॥ स दत्तपुत्रो वरुणदेवागर्भसमुद्भवः । एकादशो राजगृहवासी द्विजकुलध्वजः ॥ १०३५ ॥ सोऽतिभद्राकुक्षिरत्नं, सर्वेऽपि नवमादयः । उपासिता व्यक्तभक्तिसक्तैः शिष्यशतैस्त्रिभिः ॥ १०३६ ॥ ज्येष्ठा च कृत्तिका स्वाति: श्रुति र्यमदैवतम् । मघा ब्राम्युत्तराषाढा मार्गाश्चिन्यौ च पुष्यभम् ॥ १९३७ ॥ एकादशानां जन्मखुण्येतानि गणधारिणाम् । गृहस्थत्वादिपर्यायपरिमाणमथ ब्रुवे ॥ १०३८ ॥ गार्हस्थ्येऽब्दानि पञ्चाशत्, छाद्मस्थ्ये त्रिंशदेव च । सर्वज्ञत्वे द्वादश दानवतिचायुरादिमे ॥ १०३९ ॥ अग्निभूतौ च षट्चत्वारिंशद् द्वादश षोडश । गार्हस्थ्यादिषु सर्वायुः, स्युश्चतुःसप्ततिः समाः ॥ १०४० ॥ वायुभूतौ द्विचत्वारिंशद्दशाष्टादशापि च । गृहस्थत्वादिभावेषु, सर्वायुः सप्ततिः समाः ॥ १०४१ ॥