________________
642
१०४६ ॥
१०४७ ॥
व्यक्तस्वामिनि पञ्चाशद्, द्वादशाष्टादशापि च । त्रिषु भावेषु सर्वायुरशीतिः शरदः स्मृताः ।। १०४२ ॥ पञ्चाशच्च द्विचत्वारिंशदष्टौ शरदः क्रमात् । सुधर्मस्वामिनो गार्हस्थ्यादिष्वायुश्च तच्छतम् ॥ १०४३ ॥ संवत्सरास्त्रिपञ्चाशच्चतुर्दश च षोडश । गार्हस्थ्यादिषु षष्ठस्य, त्र्यशीतिरखिलं जनुः ॥ १०४४ ॥ मौर्यस्याब्दाः पञ्चषष्टिश्चर्तुदश च षोडश । गृहित्वादिषु भावेषु, शतं पञ्चोनमन्वितम् ॥ १०४५ ॥ अकम्पितस्याष्टचत्वारिंशन्नवैकविंशतिः । गृहित्वादिषु वर्षाणि, सर्वायुरष्टसप्ततिः ॥ नवमस्य षट्चत्वारिंशद् द्वादश चतुर्दश । त्रिषु भावेषु वर्षाणि, सर्वमायुर्द्विसप्ततिः ॥ तार्यस्य च षट्त्रिंशद्दश षोडश वत्सराः । पर्यायेषु त्रिषु प्रोक्तं द्वाषष्टिः सर्वजीवितम् ॥ १०४८ ॥ प्रभासस्य षोडशाष्टौ क्रमात् षोडश वत्सराः । पर्यायेषु त्रिष्वशेषं, चत्वारिंशच्च जीवितम् ।। १०४९ ॥ सिद्धा एकादशाप्येते, गिरौ वैभारनामनि । विहितानशना मासं, पुरे राजगृहाऽभिधे ॥ १०५० ।। नव सिद्धिं गता वीरे, नाथे जीवत्यथादिमः । सिद्धे प्रभौ द्वादशभिर्विंशत्याब्दैश्च पञ्चमः ॥ १०५१ ।। सुधर्मस्वामिनः शिष्यः, प्रशिष्यस्त्रिशलाभुवः । चरमः केवली जम्बूस्वामी चामीकरच्छविः ।। १०५२ ॥ स राजगृहवास्तव्य, ऋषभदत्तनन्दनः ! । धारणीकुक्षिसंभूत, आजन्म ब्रह्मचार्यभूत् ॥ १०५३ ॥ षोडशाब्दानि गार्हस्थ्यं, छद्मस्थत्वं च विंशतिम् । सर्वज्ञत्वं चतुश्चत्वारिंशतं पर्यपालयत् ॥ १०५४ ॥ वर्षाण्यशीतिं सर्वायुः, परिपूर्यान्तिमप्रभौ । शिवं गते चतुःषष्ट्या, वर्षेर्भेजे शिवश्रियम् ॥ अत्र च - अकम्पिताचलभ्रात्रोर्यन्मेतार्यप्रभासयोः । एकाऽभूद्बाचना तस्माद्बीरनेतुर्गणा नव ॥ १०५६ ।। एकवाचनिकः साधुसमुदायो भवेद्गणः । तेऽन्येषामर्हतां ज्ञेया, गणभृत्संख्यया समाः ।। १०५७ ॥ समुच्चिता गणाधीशाः, सर्वेषामर्हतां समे । स्युर्द्विपञ्चाशदधिकाश्चतुर्दश शता इह ।। १०५८ ॥ श्री वीरस्वामिनः साधुसहस्राणि चतुर्दश । षट्त्रिंशच्च सहस्राणि संयतीनां महात्मनाम् ॥ १०५९ ।। इदं किल चतुरशीतिसहस्रादिकंमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिके आसीरन् इति नन्दीवृत्तौ गच्छाचारवृत्तौ च ।
१०५५ ।।
श्राद्धानां लक्षमेकोनषष्ट्या युक्तं सहस्रकैः । लक्षत्रयं श्राविकाणामष्टादशसहस्रयुक् ॥ १०६० ॥ सर्वज्ञानां शताः सप्त, पञ्च मानसवेदिनाम् । सहस्रमेकमवधिज्ञानिनां त्रिशतान्वितम् ॥ १०६१ ॥ वैक्रियाणां शताः सप्त, सच्चतुर्दशपूर्विणाम् । त्रयः शता वादिवरमुनीनां च चतुःशती ॥ १०६२ ॥ सर्वेऽष्टाविंशतिर्लक्षाः, सर्वेषां साधवोऽर्हताम् । अष्टाचत्वारिंशता च, सहसैरधिकाः स्मृताः ।। १०६३ ॥ संयतीनां चतुश्चत्वारिंशल्लक्षाः सहस्रकाः । षट्चत्वारिंशदेवाथ, षट्संयुक्ता चतुःशती ॥ १०६४॥ लक्षाणि पञ्चपञ्चाशत्, श्रावकाणां गुणौकसाम् । सहसैरष्टचत्वारिंशतोपेतानि निश्चितम् ।। १०६५ ॥