________________
643
एका कोटी पञ्च लक्षाण्यष्टात्रिंशत्सहस्रकाः । सर्वाग्रं श्राविकाणां च, सर्वेषामर्हतामिह ॥ १०६६ ॥ षट्सप्ततिसहस्राढ्यं, लक्षमेकं शताधिकम् । सर्वेषामर्हतामुक्तं, सर्वाग्रं सर्ववेदिनाम् ॥ १०६७ ॥ लक्षमेकं तथा पञ्चचत्वारिंशत्सहस्रका: । शताः पञ्चैकनवतियुक्ता मानसवेदिनाम् ॥ १०६८ ॥ लक्षमेकं त्रयस्त्रिंशत्सहस्राः सचतुःशताः । उक्ता जिनानां सर्वेषामवधिज्ञानशालिनः ॥ १०६९ ॥ त्रयस्त्रिंशत्सहस्राणि, शतानि नव चोपरि । अष्टानवत्युपेतानि, स्युश्चतुर्दशपूर्विणः ॥ १०७० ॥ लक्षद्वयं तथा पञ्चचत्वारिंशत्सहस्रकाः । अष्टाढ्ये द्वे शते सर्वे, लसद्वैक्रियलब्धयः ॥ १०७१ ॥ षड्विंशतिः सहस्राणि, लक्षमेकं शतद्वयं । वादिनो मुनयः सर्वे, भवन्त्येवं समुच्चिताः ॥ १०७२ ॥ उक्ता विशेषमुनयो, येऽमी गणधरादयः । तैर्वर्जिताः सर्वसाधुसंख्या: पूर्वनिरूपिताः ॥ १०७३ ॥ सामान्यमुनिसंख्याः स्युः, सर्वेषामर्हतामिह । यथायोगं भावनीयास्ता: सर्वास्तात्त्विकैः स्वयम् ॥ १०७४ ॥ एकोनविंशतिर्लक्षाः, षडशीतिः सहस्रकाः । एकपञ्चाशदधिकाः, सामान्यमुनयोऽखिलाः ॥ १०७५॥
तथोक्तं-"गणहर केवलि मण ओहि पुब्बि वेउब्बि वाइ मुणिसंखं मुणिसंखाए सोहिय नेया
सामन्नमुणिसंखा" ॥ द्वाविंशतिः सहस्राणि, तथा नव शतानि च । वृषभस्यानुत्तरौपपातिका मुनयो मताः ॥ १०७६ ॥ श्रीनेमिपार्थवीराणां, षोडश द्वादशाष्ट च । क्रमाच्छतास्ते शेषाणां, न ज्ञायन्तेऽधुनाऽर्हताम् ॥ १०७७ ॥ येषां जिनानां यावन्तः, शिष्यास्तै रचितानि च । प्रकीर्णकानि तावन्ति, तेषामित्युदितं श्रुते ॥ १०७८ ॥ तावन्त एव प्रत्येकबुद्धा अपि निरूपिताः । प्रकीर्णकानां बूमोऽथ, स्वरूपं किञ्चिदागमात् ॥ १०७९ ॥ अर्हदुक्तानुसारेण, श्रमणा यन्महाधियः । रचयन्तीह तत्सर्वं, शास्त्रं ज्ञेयं प्रकीर्णकम् ॥ १०८० ॥ उत्कालिकमङ्गबाह्यं, दशवैकालिकादिकम् । अंगबाह्यं कालिकं यच्चोत्तराध्ययनादिकम् ॥ १०८१ ॥ प्रकीर्णकानि सर्वाणि, तानि ज्ञेयानि धीधनैः । प्रत्येकबुद्धैरन्यैर्वा, रचितानि महात्मभिः ॥ १०८२ ॥
अत्र च मतत्रयं-श्रीऋषभादिजिनानां चतुरशीतिसहस्रादिप्रमाणैः स्वस्वशिष्यै रचितानि तावत्संख्याकान्येवप्रकीर्णकानीति केचित् । ऋषभादिजिनानां स्वस्वतीर्थभाविभिश्चतुर्विधबुद्धयुपेतैरपरिमितैः साधुभिर्विरचितानि अपरिमितान्येव प्रकीर्णकानीत्यन्ये, ऋषभादिजिनानां स्वस्वतीर्थभाविभिरपरिमितैः प्रत्येकबुद्धैर्विरचितानि अपरिमितान्येव प्रकीर्णकानीत्यपरे, इत्याद्यर्थतो
नंदीसूत्रवृत्तितोऽवसेयं, गच्छाचारवृत्तिर्वा विलोकनीयेति । पट्टाधिपानसंख्येयान, यावत् श्रीवृषभप्रभोः । अविच्छन्ना गतिर्माक्षे, प्रावर्त्तत महात्मनाम् ॥ १०८३ ॥ तानष्टौ चतुरो यावत्, क्रमात् श्रीनेमिपार्श्वयोः । त्रीन् वीरस्य परेषां तु, संख्येयान्निखिलार्हताम् ॥ १०८४ ॥ अन्तर्मुहुर्तेऽतिक्रान्ते, श्रीनाभेयस्य केवलात् । प्रावर्त्तत गतिर्माक्षे, नेमेवर्षद्धये गते ॥ १०८५ ॥ पार्श्वस्य त्रिषु वर्षेषु, चतुर्पु चरमप्रभोः । शेषाणां पुनरेकादिदिवसातिक्रमे सति ॥ १०८६ ॥