Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 670
________________ 653 अभवद्ब्रह्मदत्तश्चान्तरे श्रीनेमिपार्श्वयोः । स्वरूपं चक्रिणामेवमुक्तं वक्ष्येऽथ शाह्मिणाम् ॥ १८९ ॥ त्रिपृष्ठश्च द्विपृष्ठश्च, स्वयंभूः पुरुषोत्तमः । तथा पुरुषसिंहश्च, पुरुषः पुण्डरीकतः ॥ १८० ॥ दत्तो नारायणः कृष्णो, वासुदेवा अमी नव । अचलो विजयो भद्रः, सुप्रभश्च सुदर्शनः ॥ १९१ ॥ आनन्दो नन्दन: पद्मो, राम श्चेति यथाक्रमम् । अमी विष्णुविमात्रेया, बलदेवा स्मृता नव ॥ १९२ ॥ अश्वग्रीवस्तारकश्च, मेरको मधुकैटभः । निशुम्भ बलि प्रह्लाद रावणा मगधेश्वरः ॥ १९३ ॥ नवानां वासुदेवानां, नवामी प्रतिविष्णवः । वासुदेवकरात्तस्वचक्रण प्राप्तमृत्यवः ॥ १९४ ॥ अथ पूर्वभवाद्येषां, वच्मि किञ्चित् श्रुतोदधेः । जीवो वीराहतो राजगृहे य: षोडशे भवे ॥ १९५ ॥ कोट्यब्दायुर्विश्वभूतिर्युवराजात्मजोऽभवत् । वनेऽतिनन्दने सोऽगादसन्ते रन्तुमन्यदा ॥ १९६ ॥ विशाखनन्दिना नुन्नो, वने तत्र रिंसुना । विश्वनन्दी नरेन्द्रस्तत्पितृव्यः स्वीयसूनुना ॥ १९७ ॥ सामन्तविजयव्याजादिश्वभूतिं ततो वनात् । निःसारयामास शूरः, सोऽप्यगात्तत्पुरं ततः ॥ १९८ ॥ विधेयं तं च वीक्ष्याशु, तस्मिन् व्रजति तद्धनम् । विशाखनन्दी प्रविष्टस्तत्रोचे सप्रियो भटैः ॥ १९९ ॥ दम्भोऽयं मत्पितृव्येण, मां निस्सारयितुं वनात् । सुतं च तत्रासयितुं, कृत इत्युच्चुकोप सः ॥ २०० ॥ समीपस्थं कपित्थुढे, ततो मुष्ट्या प्रहत्य सः । तत्फलौघं प्रपात्योा , योधांस्तानभ्यधात्क्रुधा ॥ २०१॥ मौलीन व: पातयाम्येवं, भक्तिः स्याद्राज्ञि चेन्न मे । यूयं जीवत रे स्वामिसंयुता मदुपेक्षिताः ॥ २०२ ॥ इत्युक्त्वाऽनर्थमूलत्वं, भोगानां परिभावयन् । संभूतमुनिपादान्ते, संयम प्रत्यपादि सः ॥ २०३ ॥ स दुष्करं तपः कुर्वन्नेकदा मथुरापुरे । मासक्षपणपर्यन्ते, गतो गोचरचर्यया ॥ २०४ ॥ तत्राहत्यैकया धेन्वा, कृशीयान् पातितो भुवि । तत्रोद्धाहार्थमेतेन, दृष्टो विशाखनन्दिना ॥ २०५ ॥ हसितश्च व ते बन्धो, कपित्थच्यावनं बलम् । ततः क्रुद्धः स तां धेनु, शृङ्गे धृत्वाम्बरेऽक्षिपत् ॥ २०६ ॥ निदानं कृतवांश्चैवं, तीव्रण तपसाऽमुना । भूयिष्ठवीर्यो भूयासमजय्यस्त्रिदशैरपि ॥ २०७ ॥ निदानं तदनालोच्य, ततो मृत्वा समाधिना । अभूत्स्वर्गे महाशुक्रे, उत्कृष्टस्थितिकः सुरः ॥ २०८ ॥ इतश्च पोतनपुरे, प्रजापतिरभून्नृपः । मृगावर्ती स्वपुर्ती स, वीक्ष्य कामवशोऽभवत् ॥ २०९ ॥ देशे पुरेऽन्तःपुरे च, रत्नस्य जनिमीयुषः । नृप एव प्रभुरिति, लोकसंमतिपूर्वकम् ॥ २१० ॥ तां पत्नीकृत्य बुभुजे, तादृश्कर्मानुभावतः । विश्वभूतिसुरश्च्युत्वा, तस्याः कुक्षाववातरत् ॥ २११ ॥ त्रिपृष्ठवासुदेवोऽसावशीतिधनुरुच्छ्रितः । तथा चतुरशीत्यब्दलक्षायुरचलानुजः ॥२१२ ॥ इति त्रिपृष्ठः ॥ युद्धे सुरूपवेश्यार्थं, निर्जितो विन्ध्यशक्तिना । सुभद्रगुरुपादान्ते, दीक्षां पर्वतकोऽग्रहीत् ॥ २१३ ॥ भूयासं तपसाऽनेन, विंध्यशक्तिविनाशक: । निदानमिति सोऽकार्षीत्पुरे कनकवस्तुनि ॥ २१४ ॥

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738