Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 665
________________ 648 गत्वा सिंहासने तस्मिन्निषण्णः सिंहशाववत् । दंष्ट्रास्ता: पायसीभूता, बुभुजे च भुजोर्जितः ॥ ७१ ॥ हतेषु मेघनादेन, तदारक्षिद्विजातिषु । रामोऽप्यागात्तत्र कालदूताहूत इव द्रुतम् ॥ ७२ ॥ मुक्तः सुभूमे रामेण, परशुः प्रज्ज्वलन्नपि । स्वयमेव शशामाशु, न्यायभाजीव दुर्जनः ॥७३॥ चक्ररत्नीभवत्स्थालं, सुभूमप्रेरितं ततः । शिरश्चिच्छेद रामस्य, पुण्यत: किं न संभवेत् ? ॥ ७४ ॥ त्रिसप्तकृत्वो निर्विप्रं, स चकार महीतलम् । वैरनिर्यातनं कुर्वस्त्रिगुणं मत्सरोल्बणः ॥७५॥ निर्जिताशेषषट्खण्डः, स चण्डक्रोधदुर्द्धरः । विप्रघातान्निववृते, न मनागपि निर्दयः ॥७६ ॥ सोऽन्यदा धातकीखण्डभरतं जेतुमुत्सुकः । निवारितोऽपि मन्त्र्याद्यैर्भृशं दुःशकुनैरिव ॥७७ ॥ रत्नेन चर्मणाऽम्भोधिं, तरीतुमुपचक्रमे । अभूच्च बुद्धिर्देवानां, चर्मरत्नभृतां तदा ॥७८॥ बिभ्रत्येवेदमन्येऽमी, विश्राम्यामि क्षणं त्वहम् । युगपच्चिन्तयित्वेति, सर्वैस्तन्मुमुचे श्लथम् ॥ ७९ ॥ ततः स चर्मणा तेन, पापेनेव गरीयसा । ममज्ज वाद्धौं देहेन, दुर्गतावात्मना पुनः ॥ ८० ॥ तथोक्तं-"तुर्यात्कषायात्पञ्चत्वं, प्राप्य षट्खण्डभूपतिः । सप्तमं नरकं प्रापदष्टमश्चक्रवर्त्यसौ ॥ अष्टाविंशतिकोदण्डोत्तुङ्गदेहोऽयमीरितः । षष्टिवर्षसहस्रायुश्चामीकरतनुद्युतिः ॥ ८१ ॥ इति सुभूमः ॥ आसीदाणारसी नाम, काशीदेशे महापुरी । तत्र पद्मोत्तरो नाम, राजा ज्वाला च तत्प्रिया ॥ ८२ ॥ अत्र-जम्म विणीय अज्ज्झा सावत्थी पञ्च हत्थिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ले ॥ [श्लो. ३९७ ] इत्यावश्यकनियुक्त्यभिप्रायेण नवमस्य चक्रिणो वाणारसी जन्मपुरी प्रतीयते, श्रीशान्तिसूरिकृताष्टादशोत्तराध्ययनवृत्तौ त्वस्य कुरुदेशे हस्तिनागपुरमुक्तमस्तीति ज्ञेयम् । विष्णुनामा तयोः पुत्रो, हर्यक्षस्वप्नसूचितः । महापद्मः परश्चक्रिसूचकस्वप्नसूचितः ॥ ८३ ॥ तदोज्जयिन्यां श्रीवर्मो, राजा तस्य पुरोहितः । नमुचिर्नाम मिथ्यादृगभूत्तस्मिन् पुरेऽन्यदा ॥ ८४ ॥ मुनिसुव्रतनाथस्य, विनेयः सुव्रताहयः । सूरि रिपरीवारो, विहरन् समवासरत् ॥ ५ ॥ गच्छतस्तन्नमस्यार्थं, पूर्जनान् वीक्ष्य भूपतिः । उपाचार्यमुपेयाय, युक्तो नमुचिनामुना ॥८६॥ वदन् वितण्डावादेन, नमुचिर्गुरुभिस्सह । शिष्येण लघुनैकेन, सद्यो वादे पराजितः ॥ ८७ ॥ विलक्षीभूतवदनस्ततो द्विष्टः स दुष्टधी: । मुनीन् हन्तुं गतो रात्रौ, देवेन स्तम्भितो दृढम् ॥ ८८ ॥ प्रातर्नुपादिभिलाकैदृष्टः कष्टेन मोचितः । धिक्कृतो हीविलक्षास्यः, स ययौ हस्तिनापुरम् ॥ ८९ ॥ मन्त्री जातो महापद्मयुवराजस्य तत्र स: । जग्राह सिंहं सामंतं, दुष्टं जनपदद्रुहम् ॥ ९० ॥ ततो वरं वृणीष्वेति महापद्मोऽब्रवीदमुम् । स स्माहास्तु वर: कोशे, याचिष्येऽवसरे विभो ! ॥ ९१ ॥ ततो महापद्ममात्राऽकारि जैनस्थो महान् । लक्ष्मीनाम्न्या सपत्न्या च, शैव्या ब्राहारथोऽत्र च ॥ ९२ ॥

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738