________________
648
गत्वा सिंहासने तस्मिन्निषण्णः सिंहशाववत् । दंष्ट्रास्ता: पायसीभूता, बुभुजे च भुजोर्जितः ॥ ७१ ॥ हतेषु मेघनादेन, तदारक्षिद्विजातिषु । रामोऽप्यागात्तत्र कालदूताहूत इव द्रुतम् ॥ ७२ ॥ मुक्तः सुभूमे रामेण, परशुः प्रज्ज्वलन्नपि । स्वयमेव शशामाशु, न्यायभाजीव दुर्जनः ॥७३॥ चक्ररत्नीभवत्स्थालं, सुभूमप्रेरितं ततः । शिरश्चिच्छेद रामस्य, पुण्यत: किं न संभवेत् ? ॥ ७४ ॥ त्रिसप्तकृत्वो निर्विप्रं, स चकार महीतलम् । वैरनिर्यातनं कुर्वस्त्रिगुणं मत्सरोल्बणः ॥७५॥ निर्जिताशेषषट्खण्डः, स चण्डक्रोधदुर्द्धरः । विप्रघातान्निववृते, न मनागपि निर्दयः ॥७६ ॥ सोऽन्यदा धातकीखण्डभरतं जेतुमुत्सुकः । निवारितोऽपि मन्त्र्याद्यैर्भृशं दुःशकुनैरिव ॥७७ ॥ रत्नेन चर्मणाऽम्भोधिं, तरीतुमुपचक्रमे । अभूच्च बुद्धिर्देवानां, चर्मरत्नभृतां तदा ॥७८॥ बिभ्रत्येवेदमन्येऽमी, विश्राम्यामि क्षणं त्वहम् । युगपच्चिन्तयित्वेति, सर्वैस्तन्मुमुचे श्लथम् ॥ ७९ ॥ ततः स चर्मणा तेन, पापेनेव गरीयसा । ममज्ज वाद्धौं देहेन, दुर्गतावात्मना पुनः ॥ ८० ॥
तथोक्तं-"तुर्यात्कषायात्पञ्चत्वं, प्राप्य षट्खण्डभूपतिः । सप्तमं नरकं प्रापदष्टमश्चक्रवर्त्यसौ ॥ अष्टाविंशतिकोदण्डोत्तुङ्गदेहोऽयमीरितः । षष्टिवर्षसहस्रायुश्चामीकरतनुद्युतिः ॥ ८१ ॥ इति सुभूमः ॥ आसीदाणारसी नाम, काशीदेशे महापुरी । तत्र पद्मोत्तरो नाम, राजा ज्वाला च तत्प्रिया ॥ ८२ ॥
अत्र-जम्म विणीय अज्ज्झा सावत्थी पञ्च हत्थिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ले ॥ [श्लो. ३९७ ] इत्यावश्यकनियुक्त्यभिप्रायेण नवमस्य चक्रिणो वाणारसी जन्मपुरी
प्रतीयते, श्रीशान्तिसूरिकृताष्टादशोत्तराध्ययनवृत्तौ त्वस्य कुरुदेशे हस्तिनागपुरमुक्तमस्तीति ज्ञेयम् । विष्णुनामा तयोः पुत्रो, हर्यक्षस्वप्नसूचितः । महापद्मः परश्चक्रिसूचकस्वप्नसूचितः ॥ ८३ ॥ तदोज्जयिन्यां श्रीवर्मो, राजा तस्य पुरोहितः । नमुचिर्नाम मिथ्यादृगभूत्तस्मिन् पुरेऽन्यदा ॥ ८४ ॥ मुनिसुव्रतनाथस्य, विनेयः सुव्रताहयः । सूरि रिपरीवारो, विहरन् समवासरत् ॥ ५ ॥ गच्छतस्तन्नमस्यार्थं, पूर्जनान् वीक्ष्य भूपतिः । उपाचार्यमुपेयाय, युक्तो नमुचिनामुना ॥८६॥ वदन् वितण्डावादेन, नमुचिर्गुरुभिस्सह । शिष्येण लघुनैकेन, सद्यो वादे पराजितः ॥ ८७ ॥ विलक्षीभूतवदनस्ततो द्विष्टः स दुष्टधी: । मुनीन् हन्तुं गतो रात्रौ, देवेन स्तम्भितो दृढम् ॥ ८८ ॥ प्रातर्नुपादिभिलाकैदृष्टः कष्टेन मोचितः । धिक्कृतो हीविलक्षास्यः, स ययौ हस्तिनापुरम् ॥ ८९ ॥ मन्त्री जातो महापद्मयुवराजस्य तत्र स: । जग्राह सिंहं सामंतं, दुष्टं जनपदद्रुहम् ॥ ९० ॥ ततो वरं वृणीष्वेति महापद्मोऽब्रवीदमुम् । स स्माहास्तु वर: कोशे, याचिष्येऽवसरे विभो ! ॥ ९१ ॥ ततो महापद्ममात्राऽकारि जैनस्थो महान् । लक्ष्मीनाम्न्या सपत्न्या च, शैव्या ब्राहारथोऽत्र च ॥ ९२ ॥