________________
647
भूरिकन्यं ययाचेऽसौ, जितशत्रुमृषिपम् । त्वामिच्छन्ती ददामीति, सोऽवादीच्छापभीरुकः ॥४४॥ क्षामं भिक्षाचरं वीक्ष्य, निखिलाः कृतथूत्कृती: । कुन्जीचक्रेसकौ शापादेकोनं कन्यकाशतम् ॥ ४५ ॥ रेणुक्रीडापरां लवी, रेणुकानामकन्यकाम् । फलैः प्रलोभ्य मामेषा, वृणोतीत्यवदन्नृपम् ॥ ४६॥ नृपेण दत्तामादाय, तां प्रसन्नः परा अपि । बटुः कन्या: पटूकृत्य, वने नीत्वा पुपोष ताम् ॥ ४७ ॥ तातवत्परिपोष्यापि, सोऽथ कामवशंवदः । जरन्नरीरमद्बालां, श्लथाङ्गोऽप्यश्लथस्पृहः ॥४८॥ ऋतुकालेऽथ तेनोक्ता, सा बाला त्वत्कृते चरुम् । साधयामि यतस्ते स्यान्नन्दनो ब्राहाणोत्तमः ॥ ४९ ॥ साऽवग् द्रौ साधय चरू, तत्र बाहाः कृते मम । अन्यः क्षात्रोऽनन्तवीर्यप्रियाया मत्स्वसुः कृते ॥ ५० ॥ साधितौ द्वौ चरू तेन, ब्राहाक्षत्रमहोनिधी । ततः साऽचिन्तयच्चित्ते, रेणुका दीर्घया दृशा ॥ ५१ ॥ मा भूत्सुतोऽपि मे मद्धदारण्यो हरिणादिवत् । ध्यात्वेति स्वयमादत्सा, क्षात्रतेजःकरं चरुम् ॥ ५२ ॥ द्वितीयं चापरा तेन, जातौ कुलविलक्षणौ । रामः पुत्रो रेणुकायाः, परस्याः कृतवीर्यकः ॥ ५३॥ कोऽपि विद्याधरो भ्रष्टनभोगतिरुपासितः । रामेण विद्या तद्दत्ता, पार्शवी साधिता क्रमात् ॥ ५४॥ स्वसृप्रेम्णाऽन्यदा चागाद्रेणुका हस्तिनापुरे । भुक्ता चानन्तवीर्येण, श्याली जातसुताऽप्यभूत् ॥ ५५॥ ससुतामपि तां निन्ये, जमदग्निर्निजं गृहम् । क्रुद्धश्च पशुरामस्तां, सडिम्भां मातरं न्यहन् ॥५६॥ तद्भगिन्योदितं पत्ये, क्रुद्धोऽथानन्तवीर्यराट् । क्रीडनार्थं गते रामे, द्राग्ममर्द तदाश्रमम् ॥ ५७ ॥ ततश्च पशुरामेणानन्तवीर्यो निपातितः । कृतवीर्यस्ततस्तस्य, पदेऽभूत्पृथिवीपतिः ॥५८ ॥ तेन क्रुद्धेन नीतश्च, जमदग्निर्यमालयम् । रिपोस्ताते हते स्वस्य, तातदुःखं हि शाम्यति ॥ ५९॥ ततश्च पशुरामेण, प्रज्ज्वलत्पशुतेजसा । कृतवीर्यः क्षयं नीतो, निखिलैः क्षत्रियैः सह ॥६०॥ कृतवीर्यप्रिया तारा, ततो गुर्वी पलायिता । कृपया तापसैस्त्राता, स्वाश्रमे भूमिवेश्मनि ॥ ६१ ॥ क्रमाच्चतुर्दशस्वप्नसूचितोऽस्यां सुतोऽभवत् । चखाद भूमिमित्युक्तः, सुभूम इति तापसैः ॥ ६२ ॥ हस्तिनापुरसाम्राज्यं, रामः स्वीकृत्य भूतलम् । निःक्षत्रियं सप्तवारांश्चकार क्रोधदुर्द्धरः ॥ ६३ ॥ अन्यदा क्षत्रियान्वेषी, सुभूमालङ्कताश्रमे । जगाम रामस्तत्रास्य, जज्वाल परशुः क्रुधा ॥६४ ॥ कोऽप्यत्र क्षत्रियोऽस्तीति, पुष्टः कुलपतिर्जगौ । तापसाः क्षत्रियाः सन्तीत्युक्तेऽसौ व्यरमत्क्रुधः ॥६५॥ हतानां क्षत्रियेन्द्राणां, दंष्ट्रिकाभिरबीभरत् । स्थालमेकं महद्रामः, संग्रामोद्दामदोर्मदः ॥ ६६ ॥ य एता: पायसीभूताः, भोक्ष्यते स त्वदन्तकः । इति नैमित्तिकेनोक्तो, रामस्तनिर्णिनीषया ॥६७ ॥ अवारितं पुरे सत्रागारं निर्माय तत्र च । दंष्ट्रास्थालाङ्कितं सिंहासनमादावतिष्ठिपत् ॥ ६८ ॥ विद्याधरो मेघनादः, सुतां पद्मश्रियं ददौ । सुभूमाय निमित्तज्ञगिरा तं चक्रिणं विदन् ॥ ६९ ॥ सुभूमस्तातवृत्तान्तं, ज्ञात्वा गदितमम्बया । क्रुद्धो रामं संजिहीर्घाग् ययौ हस्तिनापुरम् ॥ ७० ॥