Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
616
त्रिंशत्पूर्वलक्षहीनैर्नवत्याऽभूत्सहस्रकैः । पद्मप्रभोऽब्धिकोटीनामर्हत्सुमतिनिर्वृतः ॥४१२ ॥ सहस्रा अब्धिकोटीनां, दश तुर्यारकस्य च । प्रभुजन्मन्यशिष्यन्त, सत्रिंशत्पूर्वलक्षकाः ॥ ४१३ ॥ पद्मवन्निर्मलो यस्मान्मातुर्गर्भस्थिते प्रभौ । पद्मप्रभाशय्यायां, दोहदात्तादृशाह्वयः ॥ ४१४ ॥ धनुःशतद्वयं सार्द्ध, स्वामिनो वपुरुच्छ्रयः । सार्दानि पूर्वलक्षाणि, सप्त ज्ञेया कुमारता ॥ ४१५ ॥ राज्यैश्वर्यं पूर्वलक्षाण्यद्ध्यर्द्धान्येकविंशतिम् । सातिरेकाणि पूर्वाङ्ग, पूर्णैः षोडशभिर्दधौ ॥ ४१६ ॥ पूर्वलक्षं च पूर्वाङ्गैरूनं षोडशभिव्रतम् । त्रिंशत्पूर्वलक्षजीवी, मासांश्च षडकेवली ॥ ४१७ ॥ शिबिका निर्वृतिकरा, प्रथमां पारणां ददौ । ब्रह्मस्थले सोमदेवश्छत्रौघो ज्ञानपादपः ॥ ४१८ ॥ सप्तोत्तरं गणभृतां, शतं संयमिनां प्रभोः । तिम्रो लक्षाः सहस्राश्च, त्रिंशद्धिमलचेतसाम् ॥ ४१९ ॥ लक्षाश्चतस्रः साध्वीनां, सहस्राणि च विंशतिः । षट्सप्ततिः सहस्राणि, ढे लक्षे श्रावकोत्तमाः ॥ ४२०॥ लक्षाः पञ्च सहस्राश्च, पञ्च स्युः श्राविकाः प्रभोः । सहस्रा द्वादशाभूवन्, केवलज्ञानशालिनाम् ॥ ४२१ ॥ सहस्राणि दश प्राहुस्तथा त्रीणि शतानि च । मनोविदामथ दश, सहस्राण्यवधिस्पृशाम् ॥ ४२२ ॥ शतास्त्रयोविंशतिच, स्युश्चतुर्दशपूर्विणाम् । सहस्राश्च नव प्रोक्ता, वादिनां षट्शताधिकाः ॥ ४२३ ॥ सहस्राः षोडश शतं, चाष्टाढ्यं वैक्रियस्पृशः । सूर्याख्यो गणभृन्मुख्यो, रतिसंज्ञा प्रवर्तिनी ॥ ४२४ ॥ नृपश्चाजितसेनाख्यः, प्रभुभक्तिपरायणः । यक्षच कुसुमो नीलवर्णो हरिणवाहनः ॥ ४२५ ॥ अभयं च फलं चायमपसव्ये करदये । नकुलं चाक्षसूत्रं च, धत्ते वामे चतुर्भुजः ॥ ४२६ ॥ देवी भवेदच्युताख्या, श्यामाख्येयं मतान्तरे । चतुर्भुजा श्यामवर्णा, भास्वरा नरवाहना ॥ ४२७ ॥ युक्तं वरदबाणाभ्यां, स्याद्दक्षिणकरद्वयम् । कार्मुकाभययुक्तं च, वाममस्याः करद्वयम् ॥ ४२८ ॥
इति पद्मप्रभः । विजये रमणीयाख्ये, धातकीखण्डमण्डने । प्राग्विदेहेषु च शुभापुर्यां नन्दनरेश्वरः ॥ ४२९ ॥ संयमं प्रतिपद्याभूत्, स चारिदमनाद्गुरोः । षष्ठे ग्रैवेयके देवोऽष्टाविंशत्यब्धिजीवितः ॥ ४३० ॥ काशीदेशे वाराणस्यां, प्रतिष्ठनृपतेस्ततः । राज्यां पृथिव्यां तनयः, श्रीसुपार्श्वजिनोऽभवत् ॥ ४३१ ॥ भाद्रमासेऽष्टमी कृष्णा, ज्येष्ठे च द्वादशी सिता । ज्येष्ठे त्रयोदशी शुक्ला, कृष्णा षष्ठी च फाल्गुने ॥ ४३२ ॥ श्यामा च सप्तमी भाद्रे, कल्याणतिथयः क्रमात् । चतुर्यु भं विशाखा स्यादनुराधा च पञ्चमे ॥ ४३३ ॥ सैकोनविंशतिदिना, मासा गर्भस्थितिर्नव । तुलाराशिश्च विज्ञेयो, लाञ्छनं स्वस्तिकं प्रभोः ॥ ४३४ ॥ अभूत्सुपार्थो नवभिर्वार्चिकोटिसहस्रकैः । विंशतिपूर्वलक्षोनैः, श्रीपद्मप्रभमोक्षतः ॥ ४३५ ॥ सहसमब्धिकोटीनां, विंशत्या पूर्वलक्षकैः । अशिष्यताधिकं तुर्यारकस्य प्रभुजन्मनि ॥ ४३६ ॥ शुभपार्श्व: सुपार्श्व: स्यान्मातुर्गर्भस्थिते प्रभौ । सुपार्श्वताऽभवद्देहे, ततोऽयं तादृशाह्वयः ॥ ४३७ ॥

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738