Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
603
प्रत्येकं हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पाणि, पूजितानि द्रुमैरपि ॥ ११५ ॥ प्राच्यामष्टापदोऽपाच्या, हेमशैलो महोन्नतः । प्रतीच्यां सुरशैलस्तु, कौबेर्यामुदयाचलः ॥ ११६ ॥ तत्रैवमभवन् शैला:, कल्पवृक्षाऽऽलिमालिता: । मणिरत्नाकरा: प्रौच्चैर्जिनावासपवित्रिता: ॥ ११७ ॥ शक्राज्ञया रत्नमयीमयोध्यां परनामतः । विनीतां सुरराजस्य, पुरीमिव स निर्ममे ॥ ११८ ॥ यद्धास्तव्यजना देवे, गुरौ धर्म च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ ११९ ॥ कलाकलापकुशलाः, सत्सङ्गतिरता: सदा । विशदा: शान्तसद्भावा, अहमिन्द्रा महोदयाः ॥ १२० ॥ तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्यं, पाति विश्वस्य रञ्जनात् ॥ १२१ ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः । विश्वसृष्ट्वाशिल्पिवृन्दघटितानि तदुक्तिभिः ॥ १२२ ॥ विंशतौ पूर्वलक्षेषु, गतेषु जनिकालतः । तत्रैवं हरिणा राज्येऽभिषिक्तो वृषभः प्रभुः ॥ १२३ ॥ कुर्वन्नश्वगजादीनां, संग्रहं सुस्थितां स्थितिम् । राजस्य सकलां चक्रे, न्यायाध्वनि पूरस्सरः ॥ १२४ ॥ प्रभुणा दर्शितेष्वेवं, मूलशिल्पेषु पञ्चसु । प्रावर्त्तन्त शिल्पशतं-कर्माण्यपि ततः परम् ॥ १२५ ॥ तद्व्यक्तिस्तु प्राग्दर्शिता । प्रावर्त्ततान्नपाकादिराहारविषयो विधिः । शिल्पं घटादि कृष्यादिकर्माणि वचसा प्रभोः ॥ १२६ ॥ नानारत्नाद्यलङ्कारैः, प्रभोदेहविभूषणाम् । दृष्ट्वा देवैः कृतां लोके, प्रावर्त्तत विभूषणा ॥ १२७ ॥ ब्राम्या दक्षिणहस्तेन, दर्शिता लिपयोऽखिलाः । एकठ्यादि च संख्यानं, सुंदर्या वामपाणिना ॥ १२८ ॥ काष्टपुस्तादिकमैवं, भरतस्योपदर्शितम् । दर्शितं बाहुबलिने, स्त्रीनराश्वादिलक्षणम् ॥ १२९ ॥ वस्तूनां मानमुन्मानमुपमानं तथाऽपरम् । प्रमाणं गणितं चेति, पञ्चकं व्यवहारकृत् ॥ १३० ॥ मानं द्विधा धान्यमानं, रसमानं तथाऽपरम् । धान्यमानं सेतिकादि, कर्षादि च रसस्य तत् ॥ १३१ ॥ पूगीफलादेर्गण्यस्योन्मानं संख्यानुमानतः । सहस्रं नालिकेराणां, पुओऽस्मिन्निति कल्पना ॥ १३२ ॥ उपमानं च तौल्येन, पलादिपरिभावनम् । हस्तदण्डादिना भूमिवस्त्रादेर्वा मितिः स्फुटा ॥ १३३ ॥ इयदर्णमिदं स्वर्णमियत्पानीयकं त्विदं । रत्नमित्यादि प्रमाणं, गणितं प्राग्निरूपितम् ॥ १३४ ॥ प्रोतं दवरके मण्यादीनां सम्यग् निवेशनम् । समुद्रादौ च बोहित्थवाहनं पोतमूचिरे ॥ १३५ ॥ व्यवहारो विसंवादे, गत्वा राजकुलादिषु । न्यायस्य निश्चयो यद्धा, वस्तूनां क्रयविक्रयौ ॥ १३६ ॥ नीतिः सामादिका युद्धं, बाहुयुद्धायनेकधा । इषुशास्त्रं धुनुर्वेदो, राजादीनां च सेवना ॥ १३७ ॥ वैद्यशास्त्रं नीतिशास्त्रं, बन्धनं निगडादिभिः । मारणं नागपूजाद्या, यज्ञा ऐन्द्रादयो महाः ॥ १३८ ॥ मेलको गोष्ठिकादीनां, पूर्णामादिपरिग्रहः । प्रयोजनविशेषेण, ग्रामादिजनसंगमः ॥ १३९ ॥ एषु किञ्चिज्जिने राज्यं, भुञ्जानेऽजायत क्रमात् । किञ्चिच्च भरते किञ्चित्, प्रावर्त्तत तदन्वपि ॥ १४० ॥

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738