Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 350 सटीकाद्वैतदीपिकायाम् तावच्छेदकीभूतसत्वानाधारत्वात् / नाप्यसत्। रजतस्य सन्मात्रत्वप्रसंगात् तदभा. वस्यासत्यभावाच्च। अतस्तदेव सत्वासत्वविनिर्मुक्तमित्यनिर्वचनीयपरिहारायासत्पदार्थाभ्युपगन्तुः शान्तिकर्मणि बेतालोदयः / अत एव प्रत्येकप्रतियोगिकथावत्सद्धदा एवासति / ते च सन्तः सत्वस्य तत्र वत्यविरोधादिति निरस्तम् / यद्यभावप्रतियोगिकोऽपि भेदोऽसतो भिन्नहि तत्प्रतियोगिको भेदोऽपि ततोऽन्य इत्यनन्तभेदस्वीकारापतिः / __ असत्स्वरूपश्चेद् भेदस्यासत्वेनासतोऽभावात्मत्वापत्तिः तव भेदाभेदव्यतिरिक्तरूपान्तराभावात्। असन्न कस्यापि देश इति चेत् / तथा सत्यसत्वधर्म एवासत् स्यात् तथा च सत्ता असत्वविरहरूपेति त्वदभ्युपगमविरोधः। किञ्चासत्वस्याप्यदेशत्वेऽसदुक्तिव्याघातः। असत्वं वा कस्य धर्मः। एतेन सत्वावच्छिन्न-प्रतियोगिक सामान्याभावात्मकमुत यावद्विशेषाभावसमुदायात्मकं, आये दोषमाह - सत्वावच्छि नेति / न चाभावान्यत्वेऽभावत्ववत्सदन्यत्वेऽपि सत्वमविरुद्धमिति वाच्यम् / दृष्टान्तस्यैवासंप्रतिपन्नत्वादन्यत्वस्य प्रतियोगितावच्छेदकावच्छिन्नत्वं तदन्यत्वस्यापि तत्रावश्यकत्वादनवस्थापत्तेश्चेति भावः / तर्हि सदन्यत्वमसदेवेत्याशंक्याह-नापीति / त्वदुक्तासल्लक्षणाभावादपि न तदसदित्याह-तदभावस्येति / फलितमाह--अतस्तदिति / सदन्यत्वं तच्छ दार्थः वक्ष्यमाणप्रकारेण द्वितीयोऽप्ययुक्त इत्याह -अत एवेति / अविरोधादिति / सत्वस्य प्रतियोगितानवच्छेदकत्वादिति भावः / किं सद्भेदा असतो भिन्ना उत अभिन्ना भिन्नाभिन्ना वा ? आयेऽपि किं भेदप्रतियोगिको भेदोऽसतो भिन्नस्सत्स्वरूपमेव वा ? आद्ये दोषमाह-यदीति / न चोत्पत्त्याद्यप्रतिकूलत्वादियमनवस्था न दोषायेति वाच्यम् अप्रामाणिकानन्तकल्पनागौरवस्यैव दोषत्वादन्यथा समवायाद्यानन्त्यकल्पनमपि स्यादिति भावः / द्वितीयमन्द्य दूषयति-असदिति / एतेन मध्यमोऽपि कल्पो निरस्तः। तृतीयं निराकरोति-वेति / नन्वसतो धर्मित्वे भेदाश्रयत्वादिविकल्पः स्यात् / तस्य तदेव नास्ति निःस्वरूपत्वादित्याशंक्यापाकरोति-असन्न कस्यापीत्यादि / / असत्स्यादिति / निर्मिकधर्मायोगादिति भावः / ततः किमित्यत आह- था चेति / असदतिरिक्तासत्वपदार्थाभावात्तद्विरहात्मत्वमपि सत्ताया न संभवतीत्यर्थः। किञ्चैवमसतोऽसत्वं प्रत्यनाश्रयत्वे सत्वानाश्रये सदुक्तिवदसत्वानाश्रयेऽप्यसदुक्तिन स्यादसत्वधर्मोऽनवस्थितश्च स्यादित्याह-किं चेति / तदनाश्रितस्यापि तद्धर्मत्वं दृष्टान्त

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486