Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 459
________________ 438 सटीकाद्वैतदीपिकायाम् नस्तमितात्ममात्रत्वात / वृत्तिद्वारा संशयादि निवर्तयतीति चेत् / अस्तु नैतावता प्रमाणसत्यताऽपेक्षिता। दृश्यत्वं च शुक्तिरूप्यप्रपञ्चसाधारणं रजतत्वादिवत् प्रपञ्चसमानसत्ताकमेवेति ततो मिथ्यात्वसिद्धिः / प्रमात्मकानुमितो लिङ्गसत्त्वानपेक्षा किञ्च लिङ्गस्य सत्त्वं मानुमितिप्रमात्वेऽपेक्षितं, गगनं दिगादिध्यावृत्तं रूपित्वादिति मढानां प्रमाददर्शनात् / दृश्यत्वमपि प्रकाशविषयत्वम् / ___ न च ब्रह्मणि व्यभिचारः। तस्य स्वप्रकाशस्य चैतन्यविषयत्वे प्रमाणाभावात् / ब्रह्म जानामीत्यनुभवस्य वृत्त्यन्वयव्यतिरेकानुविधायिनो वृत्तिविषयताविषयत्वात् / वृत्तेरपि ज्ञानपदार्थत्वात् / न च तद्विषयव्यवहार एव प्रमाणम् / व्यवहारमात्रेहि प्रकाशः प्रकाशत्वेन हेतुः न तु व्यवहर्तव्यविषयप्रकाशत्वेन, गौरवात् / आत्मव्यवहारे भ्यवहतंव्यताऽभिन्नः प्रकाशः अनात्मव्यवहारे तद्विषयप्रकाशश्चहेतुः सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वात् / न चैवं अनात्मव्यवहारत्वेन तद्विषयप्रकाशजन्यत्वे जन्यतावच्छेदके गौरवम्। सामान्यकारणत्वग्रहदशायां तदनुपस्थितेः। सिद्ध तस्मिन् यत्सामान्ये अस्त्विति / ननु रजतादिसाधारणदृश्यत्वे व्यावहारिकत्वस्याप्यसंभवात् कथं तस्य मिथ्यात्वसाधकतेति तत्राह-दृश्यत्वं चेति / रजतादिगतस्यापि तस्य रजतत्वादिवदविद्यातिरिक्तदोषाजन्यत्वाव्यावहारिकतैवेति भावः / प्रातिभासिकलिङ्गस्यापि प्रमाप. कत्वदर्शनात् सत्त्वमपि प्रमायामकिञ्चित्करमित्याह-किञ्चेति / गगने रूपवत्त्वहेतोरसिद्धत्वात् कथं तस्य प्रमापकत्वमित्यत उक्तं-मूढानामिति / नीरूपत्वाज्ञानदशायां तदुपपत्तिरिति भावः। ___यदप्युक्तं दृश्यत्वपि वृत्तिव्याप्यत्वं वेत्यादि तत्राह-दृश्यत्व पीति / ब्रह्मणः चित्प्रकाशविषयत्वे किं ब्रह्म जानामीत्यनुभवो मान, तद्व्यवहारानुपपत्तिा , तद्विषयाविद्यानिवृत्त्यनुपपत्तिर्वा तत्संस्कारानुपपत्तिर्वा ? तत्राद्यमन्यथयतिब्रह्मति। सिद्वान्ते वृत्तेः ज्ञानत्वाभावात् कथं तद्विषयत्वं जानामीत्यनुभवस्येत्यत आह-वृत्तेरपीति / जानामीतिहि ज्ञानपदवाच्यविषयताऽनुभूयते / वृत्तिशबलस्यैव चैतन्यस्य ज्ञानपदवाच्यत्वेन वृत्तेरपि तद्वाच्यत्वात् तद्विषयत्वमात्मन्यविरुद्धमित्यर्थः / द्विनीयमपवदति-न चेति / तत्र हेतुत्वेन साक्षिविवेकोक्तन्यायं स्मारयति-व्यवहारमात्रेहीत्यादिना। व्यवहर्तव्यविषयप्रकाश इति / यथा वार्तिककारादीनां मते दोषाभावे ज्ञानसामान्य सामग्रीत एव प्रमारूपकार्यविशेषः यथा वैशेषिकादिमते अनित्यज्ञानसामग्रीत एव संस्काराभावेऽनुभवरूपकार्यविशेषः। एवं व्यवहारहेतुप्रकाशव्यवहर्तव्ययोर्भेदाभावे व्यवहारसामान्यसामग्रीत एव आत्मव्यवहारविशेषोऽपि युक्तौ भवितुम्। किञ्चातिप्रसङ्गपरिहाराय हि ज्ञानविषयत्वव्यवहारनियामकं कल्प्यं / आत्मनश्च

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486