Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 462 सटीकाद्वैतदीपिकायाम त्वापत्तिः / वास्तवत्वं विनापि मायाविवत् प्रेप्सायुपपत्तेश्च / ब्रह्मणः प्रेप्सायां प्रमाणाभावाच्च / अतएव तज्जिहासुत्वे सतीति हेतुरप्यसाधुः। जिहासा हि प्राप्ते भविष्यति वाऽनिष्टे भवेत् / न च ब्रह्मणि तस्य तद्धावः। सर्वदा होने तच्छक्त्यः संभवाच्च / न हि कल्पान्तरीयेऽस्माकं त्यागशक्तिरस्ति / जिहासादिकाले सर्पादित्यागाभावेन सदा जिहासायां तस्य सदा हेयगुणप्रसंगाच्च / जिहासायां मानाभावाच्च / सर्वेषां हेतूनां साक्षी चेता केवलो निर्गुणश्चेति श्रुतिवाधः। न च तत्र गुणत्रयराहित्यं प्रतिपाद्यते / त्वदभिमतब्रह्मणः सत्त्वगुणकतया तद्राहित्याभावात् / तथाहि-श्रीभागवते ___ सत्वं रजस्तम इति प्रकृतेर्गणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेति संज्ञा" इति सत्वोपाधिकमेव व्यावृत्तं हरि दर्शयति / अविवक्षितगुणोपाधिना तु ब्रह्मरुद्राधभिन्नं पर इति वैदिकं ब्रह्म दर्शयति / निर्गुण इति गुणमात्रस्य निषेधाच्च / साक्षीतिश्रुत्या उदासीनचेतन्यमात्रस्याभिधानाच्च / न चैवं ब्रह्मणो गुणप्रतिपादकपुराणादीनामप्रामाण्यप्रसंगः। श्रुतिमूलानां तेषां यथाश्रुत्युपपत्तेः श्रुतिश्चोपासनापरा वस्तुतत्त्वपरा चेति न गुणपरा। गुणानामन्यतो लब्धत्वात् / तस्मात् सत्यज्ञानानन्तानन्दात्मकं निर्गुणमुदासीनं ब्रह्म वेदान्तार्थ इत्याह-अत एवेति / तस्यानिष्टस्य तद्भावः ब्रह्मणि प्राप्तत्वं भविष्यत्त्वं वा नेत्यर्थः / विशेष्यासिद्धिमप्याह-सर्वदेति / अस्यापि विरुद्धत्वमाह-जिहासेति / सर्वसाधारणदोषमाह-सर्वेषामिति / निर्गुणत्वश्रुतिः सत्त्वादिनिषेधपरा न गुणमात्रनिषेधपरा इत्याशङ्क्याह---न चेति / मूर्तिमान् हरिरेव ब्रह्मेति मते तस्य सत्त्वगुणोपाधिकत्वेन पुराणादिषु प्रसिद्धः तनिषेधोऽशक्य इत्याह-त्वदमिमतेति / इह संसारदशायां वस्तुतः परः पुरुषः गुणोपाधिरहितः पूर्णः परमात्मा अस्य जगतः स्थित्युत्पत्तिलयार्थ' सत्त्वादि गुणयुक्तो यथाक्रमं हरि रित्यादिनामधेयानि धत्त इत्यर्थः / ब्रह्मणि सत्त्वादिगुणनिषेधे तस्य त्वदभिमतब्रह्मादिभेदोऽपि न स्यादित्याह-अविवक्षितेति / गुणनिषेधकश्रुतेः संकोचाभावादपि न गुणत्रयस्यैव निषेध इत्याह-निर्गुण इति / यच्चोक्तं साक्षीति द्रष्टुत्वविधानात्संकोच इति तत्राह–साक्षीति / ननु यो वाअनन्तस्य गुणाननन्ताननुक्रमिष्येत् सतु बालबुद्धिः इत्यादिपुराणवचनेषु ब्रह्मणोऽनन्तगुणवत्त्वमवगभ्यते। तद. नभ्युपगमे च तेषामप्रामाण्यमिति, नेत्याह---न चैवमिति / तहिं श्रुतित एव गुणवत्त्वं नेत्याह–अतिरिति / अन्यतोऽनुमानतो लब्धत्वात् अप्रयोजकत्वाच्चेति द्रष्टव्यम् / तत्पदार्थपरिशोधनमुपसंहरति-तस्मादिति / निरूपितं परिच्छेदार्थ संक्षिप्य दर्शयति श्लो

Page Navigation
1 ... 481 482 483 484 485 486