Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 482
________________ तृतीयः परिच्छेदः 461 ज्ञानम् / क्वचिदसाधारणज्ञानं तु सामग्रीसद्भावमात्रादिति / एतेन परस्य कथं भेदव्युत्पादनं अनुमानाद्धि तद्भवति तच्च निर्धर्मकेऽनुप. पन्नमिति निरस्तम् / व्युत्पादनदशायां धर्ममिभावस्य सत्त्वादित्युक्तत्वात्। पक्षे हि अबाधितो हेतुः स्वव्यापकं बोधयति / चेतनत्वादिकं च तथा। तदद्वैतश्रुतिवाधितमितिचेत् सिद्धं नः समोहितम् / तदनन्तरं व्यावाभावाच्च न व्यावर्तनीयम्। तत्प्रामाण्याज्ञानदशायां तु न किञ्चिद्वाधकम् / भ्रमाधिष्ठानत्वं च तद्धत्वज्ञानविषयत्वादेवोपपद्यते, न तु विशेषमपेक्षते। तस्मात् त्वदुक्ता हेत्वाभासा एव। ब्रह्मणः कल्याणगुणानुमाननिरासः यत्तु कल्याणगुणानुमानं तन्न, तेषामागन्तुकत्वे हेयत्वात् / अनादित्वे च न तहि तस्मिन् प्रेप्सा, नित्यप्राप्तत्वात्। अस्मन्मते जीवानां ब्रह्मप्रेप्सा तु प्राप्तत्वाज्ञानात् अप्राप्तत्वभ्रमाच्च कण्ठगतचामीकवत् घटते / ईश्वरस्यापि तथात्वे गतं तीश्वरत्वं, ईश्वरस्यापीच्छया गुणप्राप्तौ सदा पूर्णानन्दत्वश्रुतिविरोधः। प्राप्ते कामनाऽयोगात प्राप्तगुणप्राप्तौ शक्त्ययोगाच्च / प्रेप्सया व्याघ्रभावं गच्छति मायाविनि व्यभिचारश्च / न तस्य तद्भावः परमार्थः। किञ्च प्रेप्सितस्य गुणस्य तत्काले अभावात् सदा तत्प्रेप्सायां तस्य निर्गुणधर्मग्रहपुरस्सरं भेदग्रहो दृष्ट इत्याशक्य तत्रार्थ सामग्रीत इत्याह--क्वचिदिति / व्युत्थितं प्रति ब्रह्मणो जडभेदव्युत्पादनाय ब्रह्मण्यसाधारणो धर्मोऽभ्युपेयः अनुमानातिरिक्तमानेन तद्वयुत्पादनायोगात् तस्य च लिङ्गापेक्षत्वात् इत्यत्राह-एतेनेति / ब्रह्मणि धर्माणां कल्पितत्वात् कथं व्युत्पादनदशायां सत्त्वमित्याशक्य प्रतिवादिदृष्टया वाधितत्वात् तथोक्तमित्यभिप्रेत्याह-पक्षे हीति / प्रतिवादिपक्षेहीत्यर्थः / प्रतिवादिनोऽपि श्रुत्या बाधितं ब्रह्मणो धमित्वमित्याशङक्य तहिं तस्य व्युत्थितत्वाभावात् न व्युत्पाद्यत इत्याह-तदद्वैतेत्यादिना / निविशेषब्रह्मणः कथं भ्रमाधिष्ठानत्वं सविशेषस्यैव तदर्शनादित्याशक्य सर्वत्राज्ञातं ब्रह्मैव तदधिष्ठानमित्यभिप्रेत्याह-भ्रमाधिष्ठानत्वं चेति / ब्रह्मणि वास्तवधर्माभावेऽनुपपत्त्यभावप्रतिपादनफलमाह-तस्मादिति / हेयत्वादिति / आगन्तुकभावानामनित्यत्वनियमात् आगन्तुकानन्दादेः दुःखादिसंभिन्नत्वाच्चेत्यर्थः / न तहीति / ततश्च विशेषणासिद्धो हेनुरिति भावः। त्वन्मते यथा नित्यप्राप्तेऽपि ब्रह्मणि जीवानां प्रेप्सा तद्वदीश्वरस्यापि प्राप्तगुणेषु प्रेप्सेत्याशक्य वैषम्यमाह-अस्मन्मत इति / ईश्वरस्याप्यज्ञानादीप्सेत्याशवयाह--ईश्वरस्येति / विशेष्यासिद्धिमप्याह-प्राप्तगुणेति / किञ्च सदा तद्वानिति सामान्यव्याप्ती किं पारमार्थिकतद्वत्ताविवक्षिता उत तद्वत्तामात्रं ? आद्ये दोष माह-प्रेप्सयेति / द्वितीये वास्तवत्वं विनाऽपीति वक्ष्यमाणं दूषणं द्रष्टव्यम्। विरुद्धश्च हेतुरित्याह-किञ्चेति / दोषत्यागानुमानेऽपि हेतुः विशेषणासिद्धत्वा दाभास

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486