Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 459 ग्रहोऽस्तीति वाच्यम् स्पर्श वैजात्याभावात् तद्भेदग्रहस्याप्यसंभवात् / न च तत्र व्यक्तिविशेषनिष्ठत्वज्ञानं व्यावर्तकं अन्योन्याश्रयात् / अतो व्यभिचारान्नासाधारणधर्मो व्यावर्तकः। किञ्च धर्मोऽप्यसाधारणतया ज्ञायमानो व्यावर्तकः। कि वा यथाकथञ्चित ज्ञायमान एव ? आये ऽसाधारणत्वं यदि एतदन्यावृत्तित्वे सति एतद्वत्तित्वं त_न्योन्याश्रयः / न च यस्य यतो भेदो गृह्यते तन्निष्ठात्यन्ताभावप्रतियोगित्वं तद्वदन्योन्याभावस्यापि स्वरूपेण ग्रहप्रसङ्गात् / अन्यथाऽनःस्थया क्वापि भेदो न गृह्येत / नाप्यसाधारणधर्मस्य स्वरूपेण ज्ञानमेव व्यावर्तकं, प्रमेयत्वादिना ज्ञातेऽपि स्थाबादौ पुरुषाद्वयावृत्तिबुद्धिप्रसंगात् / न च घटत्वता. दिना रूपेण तज्ज्ञानं भेदकं घट इति प्रत्यक्षमात्रात् घट: पटो न भवतीति बुद्धयभावप्रसंगात् / घटत्वता च तव नाखण्डधर्मः घटेतरावृत्तित्वे सति सकलघटवृत्तित्वं चेत् तज्ज्ञानेऽन्योन्याश्रयः। एवमसाधारणस्याप्यसाधारणधर्माभ्युपगमेऽप्रामाणि. कानन्तधर्मकल्पनादोषाच्च / एतेन विशिष्टज्ञानं भेदधीहेतुः निर्विकल्पकात् तदभावादिति धर्मज्ञानमपि द्रव्येऽपि तदुपपत्तिरित्याह--न च तत्रापीति / स्पर्श व्यक्तिविशेषाश्रितत्वज्ञानाद्भदधीरित्याशक्य स्पर्शविशेषाश्रयत्वस्यैव व्यक्ती विशेषत्वात् व्यक्ती तद्ग्रहे च व्यक्ती विशेषग्रंह इति परस्पराश्रयः स्यादित्याह - न च तत्रत / विकल्पासहत्वादपि नासाधारणधर्मज्ञानं भेद हेतुरित्याह-किञ्चेति / अथवा घटत्वाद्याकारेण ज्ञायमानइत्यपि तृतीयो विकल्पो द्रष्टव्यः / अन्योन्याश्रय इति / एतस्य तदन्यत्वग्रहं विना इतरस्यतदन्यत्वासिद्धेःतदसिद्धौ एतदन्यावृत्तित्वस्य दुर्ग्रहत्वादित्यर्थः / यस्य यद्वस्तुतो भेदो गृह्यते तत्र व्याप्यवृत्त्यत्यन्ताभावप्रतियोगित्वं व्यावर्तकधर्मस्यासाधारणत्वं ततो न संयोगादेरसाधारणत्वं इत्याशङ्क्याह-न च यस्येति / किं धर्मस्यैतादृशात्यन्ताभावप्रतियोगित्वग्रहे तत्स्वरूपग्रहमात्रं हेतुः उतासाधारणधर्माः न्तरविशिष्टतया तद्गहः ? आये आह--तद्वदिति / स्वरूपेणेति / मिस्वरूपग्रहणमात्रणेत्यर्थः / अतिप्रसंगपरिहारयोरुभयत्र तुल्यत्वादिति भावः / द्वितीये धर्मान्तरस्याप्यत्यन्ताभावप्रतियोगित्वरूपासाधारणत्वग्रहार्थमसाधारणधर्मान्तरग्रहापेक्षेत्यनवस्थापत्तो . कस्याप्यसाधारणधर्मस्यार हात् भेदधीन स्यादित्याह-अन्यथेति / यथाकथञ्चिदिति पक्षं दूषयति-नापीति / पुरुषात् स्तंभादौ व्यावृत्तिबुद्धिप्रसंगादिति द्रष्टव्यम् / तृतीयं दूषयति-न च घटत्वतेति / किञ्च घटत्वता चेति द्वितीयमनूद्य दूषयति-घटेतरेत्यादिना / सर्वत्रासाधारणधर्मस्यैव व्यावर्तकत्वे दोषान्तरमाह-एवमिति / प्रमेयत्वादावसाधारणधर्मासंभवश्चेति चार्थः। असाधारणधर्मग्रहस्य हेतुत्वनिरासेनान्यदपि चोद्यं निरस्तमित्याह-एतेने त / त्वदभिमतेति / संसर्गागोचरधर्ममि-मात्रगोचरनि.

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486