Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 478
________________ तृतीयः परिच्छेदः 457 मात्र परिशेषापत्तिः। द्वितीये च आनन्दत्वाकारेण मेवोऽभेदो वा स्यान् तदुभयं चासंगतमित्युक्तम्। तर्कागोचरब्रह्मणः तर्केण शरीरनिराकरणम् यत्तु तर्कागोचरत्वादीश्वरस्य न तर्केण तस्य शरीरादिनिराकरणमिति / तन्न / तद्गुणेषु त्वयैव ताणामुक्तत्वात्। एतेश्रुत्यनुकूलाश्चेत् एतेऽपि निर्गुणश्रुत्यनुकूला अबाधिता इति न तदगुणसिद्धिः। यत्वीश्वरस्य विचित्रशक्तित्वात् एकस्यापि शरीरशरीरिभाव इति / तदति. मन्दम् / शक्यकार्य विना शक्तेरयोगात् तस्मात्प्रकृते परं ब्रह्म निर्गुणश्रुतिविरोधात न सगुणम् / यानि तु तच्छिरस्कानि वचनानि तान्यप्रयोजकार्थानि। निर्धर्मके ब्रह्मणि अधिष्ठानत्वादेर्वास्तवस्याभावात् / ब्रह्म सर्वज्ञत्वादिरहितं घभित्वात् घटवदिति सत्प्रतिपक्षत्वाच्च / न च ब्रह्मण्यसाधारणधर्माभावे प्रपञ्चभिन्नतया निर्णयासंभवः / सत्यज्ञानानन्दानन्तात्मकतानिर्णयस्यैव पुरुषार्थत्वात् / न हि कल्पितस्य भेदोऽधिष्ठानादतिरिच्यत इत्युक्तम् / ब्रह्मण: शरीरित्वाद्यनुपपत्तिः / अभेदस्यासत्त्वे वा अत्यन्तभेदात् तस्यानन्दरूपताऽभावात् हेयत्वादिप्रसङ्ग इत्यर्थः / रूपभेदेन भेदाभेदेऽपि किमानन्दत्वाकारेण ब्रह्मभेदोऽभेदो वा ? नाद्यः भेदे ब्रह्म आनन्दो न भवेत् / द्वितीये तस्य तद्गुणकत्वाद्यनुपपत्तिः इत्याहद्वितीये चेति / 'नैषा तर्केण मतिरापनेया” इति श्रवणात् ईश्वरो नोक्ततर्कग चर इति चोद्यमुद्भाव्य परिहरति-यत्त्वित्यादिना / किमीश्वरः तर्कमात्रस्यागोचरः उत श्रुत्यननुकूलस्य ? आये मीमांसाऽनारम्भः / ब्रह्मणो हेयगुणत्वानुपपत्तैरिति त्वदुक्तिविरोधश्च स्यादित्याह--तद्गुणेष्विति / द्वितीये अस्मदुक्तताणामपि श्रत्यनुकूलत्वात् तद्गोचरता ब्रह्मणो युक्तेत्याह-एत इत्यादिना / कार्य विनति / ईश्वराभिन्नशरीरादेः अकार्यत्वान्न तत्र शक्तिरित्यर्थः। युक्त्यनुगृहीतनिर्गुणश्रुतेः बलवत्त्वात् वस्तुतो निर्गुणमेव ब्रह्मेत्युपसंहरति-तस्मादिति / ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवत् इत्यादिपरोक्तानुमानानामाभासत्वमाह-यानि त्विति / ब्रह्मणि प्रपञ्चाधिष्ठानत्वादिधर्माणां त्वयाऽभ्युपगमात् कथं तन्निषेध इत्याशङक्याह--निर्धर्मक इति / प्रतिपक्षपराहतिमप्याह-ब्रह्मेति / न चास्य 'यस्सर्वज्ञ' इत्यादिश्रुतिविरोधः। तस्य वास्तवसर्वज्ञत्वादौ तात्पर्याभावस्योपपादनादितिभावः / प्रतिपक्षानुमाने बाधकमाशङ्क्य निराकरोति न चेति / प्रत्यगभिन्नब्रह्मस्वरूपज्ञानस्यैव पुरुषार्थत्वात् प्रपञ्चभेदज्ञानमनपेक्षितं स्वरूपज्ञानं च प्रपञ्चबाधकं श्रुत्येवो. त्पाद्यत इत्यभिप्रेत्याह-सत्यज्ञानेति / किञ्चारोप्यप्रपञ्चभेदस्याधिष्ठानब्रह्मस्वरूपत्वात् तज्ज्ञानमेव तज्ज्ञानमिति किमसाधारणधर्मेणेत्याह- नहीति / किञ्च सर्वत्र धर्मो व्यावर्तकः

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486