Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् हेतुत्वादानन्दत्वम् कार्यस्य प्राकृततयापि हेयत्वापातात् / अन्यथा वयमप्यनन्त कल्याणगुणा भवामः। यत्तु शरीरमप्यानन्द इति तन्न। आनन्दस्य परिमितत्वे वैषयिकानन्दवत् हेय एव स्यात् / ब्रह्मणः पूर्णानन्दत्वमपि न स्यात् / अपरिच्छिन्नत्वे च कथं तस्य शरीरता, मुखनासिकाद्यन्तरवकाशस्याभावे शरीरत्वानुपपत्तेः। तदभावे त्वदभिमतवेदवक्तृत्वं ब्रह्मणो न स्यात् / अस्माकं च वेदस्या. पौरुषेयतया वक्तृत्वानपेक्षत्वात् / वियदादिवत् तदुपपत्तेः / या तु आप्रणखात् सर्व एवानन्द इति श्रुतिः सा इक्षुखण्डः आमूलाग्रं मधुर इतिवत् ज्ञेया। स्वेच्छानिर्मितमायिकशरीरस्यास्माभिरङ्गीकारात / एवमानन्दब्रह्मणो दे 'आनन्दाद्धयेव खल्विमानि भूतानि जायन्त' इत्यादिअतिविरोधः अभेदे तु ब्रह्म शरीरमेव स्यात् अशरीरं वा, न शरीरि। न वा तस्यानन्तकल्याणगुणत्त्वं, कल्याणगुणस्यानन्दस्य ब्रह्ममात्रत्वेन गुणत्वानन्त्ययोरभावात् / भेदाभेद इति चेत् किमानन्दत्वब्रह्मत्व कारेणैव तदुभयं किं वा रूपान्तरेणाभेदो रूपान्तरेण भेदश्चेति वा ? नाद्यः, अभेदस्य भेदाभावस्वरूपत्वेन विरो. धात। अन्यथा तयोः परस्परविरहरूपत्वानुपपत्तेः। अन्यतरस्यासत्त्वे च एक कार्यानन्दस्य दुःखसम्भिन्नत्वनियमादिति भावः। कार्यस्यापि कल्याणगुणत्वेऽतिप्रसङ्गमाह-अन्यथेति / हेय एव स्यादिति / परिच्छिन्नस्यानित्यत्वनियमादित्यर्थः। शरीरमप्यनवच्छिन्नमित्याशङ्ख्याह-मुखनासिकेति / ब्रह्मशरीरस्यालौकिकत्वात् नीरन्ध्र तदित्याशङ्क्याह-तदभाव इति / त्वन्मतेऽपि ब्रह्मणोऽशरीरतया वेदवक्तृत्वानुपपतिरित्यत आह-अस्माकमिति / कथं तर्हि शास्त्रयोनित्वं ब्रह्मण इत्याशक्य शास्त्रस्य तद्विवर्तत्वा दित्याह-वियदादिवदिति / शरीरादेरानन्दत्वे परोदाहृतां श्रुतिमन्यथयति-या स्विति / इक्षुदण्डस्य मधुररसात्मत्वाभावेऽपि यथा तत्संवन्धनियमात् सर्वो मधुर इति व्यपदेशः एवं ईश्वरेण मायोपात्तलीलाविग्रहस्य स्वरूपानन्दव्याप्तेः तद्वयपदेश इत्यर्थः / शरीरस्यानन्दात्मत्वे दोषान्तरं वक्तुं आनन्दब्रह्मणोऽर्भेदं तावन्निराचष्टे-एव मिति / शरीरात्मकानन्दस्य ब्रह्मणोऽभेदे दोषमाह-अभेदे त्विति | आनन्दरूपशरीरे ब्रह्मणोऽन्तर्भावे शरीरमेव ब्रह्मेति स्यात् / ब्रह्मणि शरीरान्तर्भाबे अपरिच्छिन्नब्रह्मातिरेकेण परिच्छिन्नकरचरणाद्यभावात् अशरीरं ब्रह्म स्यात् न तु शरीरित्वं स्वरूपमात्रे शरीरित्वव्यपदेशस्य पारिभाषिकत्वादित्यर्थः / आनन्दब्रह्माभेदे तदात्मकगुणानामनन्तत्वं ब्रह्मगुणत्वं च न स्यादित्याहन चेति / आनन्दब्रह्मणोरभेदेऽपि भेदस्यापि सत्त्वात् शरीरित्वाद्युपपत्तिरिति शङ्कते- भेदाभेद इति / विकल्पासहत्वान्नैतदित्याह-किमिति ।आद्येऽपि किमुभयोरपि सत्यत्वनुतान्यतरस्यव? नाद्य इत्याह-अभेदस्येति / द्वितीये दोषमाह -अन्यतरस्येति / भेदस्यासत्त्वेऽत्यन्ताभेदात्

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486