Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 484
________________ तृतीयः परिच्छेदः 463 इति सिद्धम् / ( श्लो ) सत्यज्ञानसुखस्वरूपममृतं शुद्धाद्वितीयं परं वेदान्तकविनिश्रयं हरिहरश्रुत्यादिसंशब्दितम् / ब्रह्माम्नायवचोविचारविदितं यदूपमन्यादर्श तद्देव्याविभवः परं मरुपयस्तुल्यो दुरूहो हरेः॥ इति श्रीमत्परमहंसपरित्राजकाचार्यभगवज्जगन्नाथाश्रमश्रीचरणशिष्यश्रीनृसिंहाश्रमकृतौ अद्वैतदीपिकायां औपनिषद दीपिकाख्यः तृतीयः परिच्छेदः केन----सत्यज्ञानेति / अमृतं नित्यं सत्यज्ञानादिरूपमेव ब्रह्म / हरेब्रह्मणोऽन्यादृशं गुणादियक्तं यद्रूपं तत् देव्या मायायाः परं केवलं दुरूहोऽनिर्वचनीयो विभवो विलास इति वेदान्तवचोविचारेण विदितमिति योजना। इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवन्तृसिंहाश्रमपूज्यपादशिष्यश्रीनारायणाश्रम. विरचिते अद्वैतदीपिकाविवरणे औपनिषददीपिकाख्यः तृतीयः परिच्छेदः ग्रन्यसंख्या मू 2524 टीका-४१५१

Loading...

Page Navigation
1 ... 482 483 484 485 486