Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 479
________________ सटीकाद्वैतदीपिकायाम् सन्दादेव ब्रह्मणो निधर्मकत न तर्कात किञ्च धर्म एव व्यावर्तक इति न नियमः, लिङ्गायावृत्तिबुद्धौ हि तथा। यदा तु शब्द एव ब्रह्म सत्यज्ञानानन्दात्मकं जडान्यस्वरूपमिति बोधयति तदा किं धर्मेण / यदा प्रपञ्चभेदज्ञानमपेक्षितं तदा स्वप्रकाशत्वादयः सन्त्येव। / किञ्च व्यक्तिरेव स्वस्या इतरव्यावृत्तिबुद्धिहेतुः, धर्मवत् तदाश्रयस्यापि कमावृत्तस्वरूपत्वात् / धर्मस्त्वनुगतबुद्धिमाने हेतुः लिङ्गतया वोपयुज्यते। कथमन्यथा मध्येच्छिन्नरोमादौ इदमिदं न भवतीति बुद्धिः स्यात् / तत्रासाधारणधर्मस्यासंभवात् / न च तदंत्वमेवासाधारणधर्मः प्रतियोगिन्यपि तत्सत्त्वात् / तस्य परमते केवलान्वयित्वात / नाप्येतद्रोमत्वादिकं .. एतत्त्वरोमत्वयोरन्यत्रापि सत्त्वेन तद्विशिष्टस्यापि तथात्वात् / न च प्रदेशविशेषसंयोगित्वं, प्रतियोगिनस्तत्रानयने तस्मिन्नपि तत्सस्वात् / भूप्रदेशे.संयोगित्वज्ञानं विनापि इदमिदं न भवतीति प्रतीतेश्च / त्वना च्छिन्नकेशद्वयस्य भेदग्रहे कस्याप्यसाधारणधर्मस्याग्रहाच्च / न च तत्रापि स्पर्शभेद उत क्वचित् / नाद्य इत्याह- किञ्चेति / किमसाधारणधर्मज्ञानमात्रं व्यावृत्तिधीहेतुः उत तत्त्वेन ज्ञानं ? आद्ये धर्मवानयमिति ज्ञानादपि तस्येतरभेदधीप्रसंगात् / न द्वितीय: धर्मिण इतरभेदग्रहं विना धर्मेऽसाधारणत्वायोगात् इत्यादि वक्ष्यत इति भावः / द्वितीयमङ्गीकरीति–लिङ्गादिति / फलितमाह-या विति / न च वाक्यमपि किञ्चिदुद्दिश्य किञ्चिद्विधत्त इत्युद्देश्यविधेयतावछेदकधर्मसंसर्गमपेक्षत इति वाच्यम्। उद्देश्यविधेयसंसर्गस्यात्रावाक्यार्थत्वात् / अज्ञातसत्यज्ञानानन्दात्मकाखण्डब्रह्मस्वरूपस्य सर्वपदोप लक्ष्यत्वाभ्युपगमात् / न च लक्ष्यतावच्छेदकधर्म विना लक्ष्यत्वानुपपत्तिरिति वाच्यम् / लक्ष्यबहुत्वे हि तदपेक्षा / इह तु एक एव स्वरूपविशेषो लक्ष्यत इति न धर्मस्योपगम इति भावः / न च श्रुतार्थदायि युक्तेरपेक्षणात् ब्रह्मणो धर्माभावे युक्तितः कथं जडभेद. सिद्धिरित्याशक्य विचारदशाया ब्रह्मणि धर्माः सन्तीत्याह--यदेति / धर्म एव व्याव. ग्रहारपूर्व घटत्वादिधर्माणां नियमेन बुद्धिस्थत्वात् तेषामपि तत्र हेतुत्वमाशङ्क्यान्यथासिद्धिमाह--धर्मवदिति / असाधारणधर्मस्य भदग्रहहेतुत्वे बाधकमाह-कथमन्यथेस्यादिना। .. : " एकस्मिन् काले देशविशेषस्थत्वमेव रोमयोावर्तकधर्म इत्याशय परस्परं वेष्टितयो स्पर्श विनापि, वायुना गच्छतोस्तयोः भेददर्शनादित्याह -- भूप्रदेशेति / तत्रापि आलोकावयविशेषसंसृष्टत्वमसाधारणो धर्म इत्याशब्याह - त्वचेति / त्वचा स्पर्शभेदग्रहात द्रव्यभेदधीरित्याशक्य स्पर्श वैजात्याभावात्, तत्र व्यक्तिग्रहादेव भेदधीवत्

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486