Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 481
________________ 460 सटीकाद्वैतदीपिकायाम् तत्र हेतुरिति प्रत्युक्तम् / विशिष्टज्ञानमात्रस्य तदयोगात् / त्वदभिमते निर्विकल्पकज्ञाने प्रमाणाभावाच्च। विशेषदर्शनात् संशयनिवृत्तिविचारः ननु विशेषदर्शनं संशयनिवर्तकम् / तच्च निर्णयप्रकारीभूतधर्मव्याप्यवत्त्वज्ञानम् / व्यक्तिज्ञानमात्रं च संशयेऽप्यस्तीति चेत् / न, यद्विषयः संशयः तद्विषयसत्तानिश्चयरूपज्ञानानिवर्तते, न तु तद्वयाप्यवत्तानिश्चयेन तस्य ततो भिन्नविषयत्वात् / तेन रूपेण तस्य गुरुशरीरतया तत्राहेतुत्वाच्च / ततश्च संशयो यदि प्रकारवैशिष्टयविषयः तहि प्रकारविशिष्टविषयानिश्चयानिवर्तते, यस्तु प्रातिपदिकमात्रविषयः स तन्निश्चयादेव निवर्तते / प्रातिपदिकमात्रसंशयश्च आनन्ददीपिकायां वक्ष्यते। नापि तात्पर्यावच्छेदकतयाऽसाधारणधर्मोऽभ्युपगन्तव्यः धर्म विनापि द्वैताभावस्वभावानन्दप्रकाशे श्रुतितात्पर्यमिति तन्निर्णयसंभवात् / तात्पर्यविषयव्यक्तेरेकत्वेनावच्छेदकधर्मानपेक्षत्वाच्च / सत्यादिपदापर्यायत्वमखण्डार्थवादे वक्ष्यते / तस्मानासाधारणधर्मज्ञानं भेदज्ञानं भेदज्ञाने वा कारणम् / न चैवं लोके संशयाद्यनुपपत्तिः भेदग्रहे तदयोगादिति वाच्यम् / तत्र दोषादिप्रतिबन्धेन भेदाग्रहात् / प्रतिवन्धाभावदशायां तु व्यक्तिज्ञानादेव भेद विकल्पके न मानमस्ति विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वादेनिराकरणादित्यर्थः / ब्रह्मणि ज्ञानसंशयनिवृत्त्यनुपपत्त्या धर्मोऽभ्युपेय इति शङ्कते–नन्विति / स्वरूपज्ञानमेव संशयनिवर्तकविशेषदर्शनमित्याशक्याह-व्यक्तीति / व्यक्तिज्ञानमात्रस्य संशयानिवर्तकत्वेऽपि तद्विशेषस्तन्निवर्तक इति समाधत्ते-न यद्विषय इति / न च सत्तानिश्चय एवोक्तविशेषदर्शनं विना नेति वाच्यम् / संशयप्रयोजकदोषापगमे विशेषांश इव व्यक्त्यंशे सत्तानिश्च यसंभवात् ब्रह्मणि विचारादिना विपरीतवासनादिनानादोषापगये वेदान्तरेव सत्तानिश्चयोदयात् संशयादिनिवृत्तिसिद्धिरिति भावः। सत्तानिश्चयोऽपि स्थाण्वादौ सप्रकारक एव संशयविरोधी दृष्ट इत्याशङ्क्याह-ततश्चेति / प्रातिपदिकार्थमात्रविषय इति चतुर्थे वक्ष्यत इत्याह-प्रातिपदिकेति / एवमपि वेदान्ततात्पर्यविषयतावच्छेदको ब्रह्मणि धर्मोऽभ्युपेय इत्याशक्याह-नापीति / किमन्यस्य तात्पर्यविषयत्वाभावाय तदवछेदकापेक्षा. उत तदनुगमनाय ? नाद्यः इतरव्यावत्तस्वरूपविशेषतात्पर्यनिर्णयादेव तत्सिद्धेरित्यभिप्रेत्याह-धर्म विनेति / द्वितीयं निराकरोति-तात्पर्येति / अद्वैतवादे सत्यज्ञानादिपदानां पर्यायतापत्तेः सहप्रयोगानुपपत्तिरित्याशङ्क्याहसत्यादीति / व्यक्तिग्रहादेव भेदग्रहे लोके धमिग्रहादेव भेदस्यापि ग्रहे संशयाद्यनुपपत्तिरित्याशङ्क्य सति दोषे भेदाग्रहान्मैवमित्याह-न चैवमित्यादिना / शुक्त्यादावसाधारण

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486