Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 475
________________ 454 सटोकाद्वतदीपिकायाम् अत एव रुनो जीव इति निरस्तम् / श्रीरुद्रस्य ब्रह्मकोटित्वनिस्कर्षः नारायणाद्रुद्र इति तु अस्मदभितानारायणात् उपाधितः पृथग्भावपरम् / ब्रह्मण्यो देवकीपुत्र इतिवद्वा द्रष्टव्यम् / न च रुद्रादिशब्दा बिष्णोरेव नामानि / वैपरीत्यमेव किं न स्यात् / न च तमोगुणोपाधितया तस्यासर्वज्ञत्वात् नेश्वरता गुणोपाधित्वस्य मूर्तविष्णोरपि तुल्यत्वात् / न च तमोगुणात्तम्य निकषः / नहि रुद्रस्य सृष्टिपूर्वकालीनतया ईश्वरत्वे ना गयणाद्रद्रो जायत इति श्रुत्यनुपपत्ति रित्याशङ्ख्याह-नारायणादिति / नारायण एवेदं सर्व स ब्रह्मा स शिवः सेन्द्रः सोऽग्निः यच्चकिञ्चिज्जगत्यस्मिन् इत्यादिना नारायणस्य सर्वात्मत्वश्रवणात् अद्वितीयब्रह्मैव नारायणशब्दार्थः मूर्तिमतः सर्वात्मत्वायोगात् / तथा च तस्यैव गुणोपाधिकृतभेदादभिप्यक्तिमपेक्ष्य नारायणाद्र उच्यते। इतरथा सोम इत्युमासहायं प्रस्तुत्य “जनितेन्द्रस्य जनिजोत विष्णोः इति श्रवणात् विष्णोरपि तत उत्पत्तिः स्यात् इति भावः / शवमतेऽप्यविरोधमाह-ब्रह्मण्य इति / नारायणस्य देवक्यामाविर्भावमात्रेण यथादेवकीपुत्र इति श्रुतिः एवं रुद्रस्य लीलया नारायणादाविर्भावपरा श्रुतिरित्यर्थः / तं देवा रुद्रमित्यादिवाये रुद्रादिपदानां विष्णुपरत्वात् नारायण एव ब्रह्मत्याशङ्ख्य नारायणादिपदानां शिवपरत्वात् स एव ब्रह्म किं न स्यात् इत्याह-न च रुद्रादीति / सहारकर्तृरुद्रस्य सर्वत्र तमोगुणोपाधित्वश्रवणात् तस्य न सर्वज्ञतेत्याशङ्क्याह-. न चेति / किमसर्वज्ञत्वं गुणोपाधिकत्वप्रयूक्तं उत तमःप्रयूवतं? आद्य विष्णोरपि तत्प्रसंग इत्याह--गुणोपाधित्वस्येति / द्वितीयं निरस्यति-न चेति / तमसः संहारकार्ये हेतुतया तदुपाधित्वे तद्वशवर्तितया तत्स्वरूपापरिच्छिन्नप्रकाशानावारकत्वात् तस्य सार्व जयसिद्धिरित्यर्थः। ननु सत्वात् सञ्जायते ज्ञानं इति ज्ञानस्य सत्त्वगुणाधोनत्वप्रतीतेः कथं तद्रहितस्य सर्वज्ञतेत्याशक्य सत्त्वाभावमङ्गीकृत्याह-न हि गुणेत / ज्ञानस्य सत्यतया सत्त्वानधीनत्वादित्यर्थः। कथं तहि जीवानामसर्वज्ञता ईश्वरस्य तु सर्वज्ञतेति व्यवस्थेत्याशक्य जीवानामनादिमाययाऽऽवृतस्वरूपतया मूढत्वात् असर्वज्ञता। ईश्वरस्य मायानियन्तृत्वात् तद्वैपरीत्यमित्यभिप्रेत्याह-किन्त्विति / तमोगुणोपाधिकस्यानावृतस्वरूपत्वादिकं कथमित्याह-तदुभयमिति / समस्तसाक्षि तमसापरस्तात् मायिनं तु महेश्वरं इत्यादिश्रुतेः तत्सिद्धिरित्यर्थः / उपाधिवैषम्यमात्रेण ज्ञानेश्चर्यादौ न वैषम्पमित्येतत् सदृष्टान्तमाह-न हीति / तहि सत्वात् सञ्जायत इत्यस्य कागतिरित्याशङक्य जीवानां सत्त्वोद्रेके प्रकाशादिव्यक्तिभूयस्त्वविषयं तदित्याह-जीवानामिति / किञ्च ‘एवमेषा माये'त्युपक्रम्य स्वयं गुणाभिन्ना प्रकृतिः कार्येष्वपि गुणाभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी इति विष्ण्वादिमूर्तीनां मायामयत्वश्रवणात् न विरोध

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486