Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 474
________________ तृतीयः परिच्छेदः किञ्च आदित्यसमानरूपत्त्वे ब्रह्मणः प्राकृतगुणवत्त्वप्रसंगः / अप्राकृतस्य प्राकृतसाम्यायोगात्। सादश्यस्यैव प्राकृतत्वात् अप्राकृतस्यात्मनो रूपवत्त्वायोगाच्च। आदित्यवर्णश्रुतेः रूपवैशिष्ट्येऽदृष्टत्वात् / तथा रूपनिषेधश्रुतेः संकोचायोगाच्च / रूपविशेषम्यापि तत्र त्वदुक्तरीतिकानुमानेन विशिष्यानुमान शक्यतया श्रुतेस्तत्रतात्पर्याभावाच्च / अन्यथा 'सर्वकर्मा सर्वकामः सर्वगन्ध' इति श्रुतिबलात् त्वदभिमतब्रह्मणि अप्राकृतदुर्गन्धादिरपि स्यात् / अगन्धश्रुतेः प्राकृतगन्धविषयत्वात् / उपासनाशेषत्वं तु तवादित्यवर्णश्रुतावपि तुल्यम् / अत एवादिव्यवर्णश्रुतेः अनुमानादपि बाधो ग्रन्थ दशितः। तस्यास्तत्रादृढत्वात् / एवमशरीरत्वश्रुतिविरोधान्न ब्रह्म शरीरि हिरण्मयशरीरस्योपासनार्थमारोपि. तत्वात् / सर्वस्यापि शरीरादेः प्रकृतिरूपमायाजन्यत्वाच्च / __ किञ्च मूर्तिमच्चेत् ब्रह्म तदनेकतापत्तिः / लक्ष्मीकलत्र शङ्खचक्रादिचिह्न त्वदभिमतमेकम् / तथा उमार्धविग्रहं त्रिलोचनादिलक्षितं शैवाभिमतपरम् / त्वदभिमतमिव तदपि सृष्टिपूर्वकालीनतया च तल्लक्षणतया श्रूयते ते देवा रुद्रमपृच्छन्को भवानिति सोऽब्रवीत अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति तस्यैव सृष्टे: प्रथमकालीनत्वश्रवणात् / उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तं ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षि तमसः परस्तात्" इति उमार्धविग्रहादि भूतयोनित्वमोक्षोपायत्वादिश्रवणाच्च / वेत्याह-आदित्येति / अपूर्वत्वाभावादपि आदित्यवर्णश्रुतेः न रूपविशेषे तात्पर्यमित्याह- रूपविशेषस्यति / त्वदुक्तोत / ब्रह्म आदित्यसमानरूपवत् तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् इत्यतेनेत्यर्थः / श्रुतत्वमात्रेणाप्राकृतरूपाभ्युपगमेऽतिप्रसंग इत्याहअन्यथेति / सर्वगन्ध इत्यस्योपासनाविधिपरत्वात् न सर्वगन्धवत्त्वपरतेत्याशक्याहउपासनेति / ब्रह्म नीरूपं चेतनत्वात् जीववत् इत्यनुमानबाधिता आदित्यवर्णश्रुतिः इत्याचार्योक्तमपि युक्तमित्याह-अतएवेति / अतःशब्दार्थमाह-तस्या इति / हिरण्यश्मश्ररित्यादिवाक्यात् ब्रह्मणः सशरीरत्वमित्ययुक्तमिति दूषयति- एवमशरीरत्वेति / अकायमवणं अपाणिपादः इत्यादि श्रुतिविरोधादित्यर्थः। शरीरनिषेधश्रतिः प्राकृतशरीरविषयेत्याशङ्क्याह-सर्वस्येति / शरीरविशेषवतो ब्रह्मत्वे तदेकत्वमपि न सिद्धयेदित्याह-किञ्चेति / नारायण एवांग्रआसीत् न ब्रह्मा न च शङ्कर इति नारायणस्यैव सृष्टिपूर्वकालीनत्वश्रवणात् स एव ब्रह्मेत्याशक्य रुद्रस्यापि तच्छ् यत इत्याह- त्वदभिमतमिवेति / सोऽरोदीदिति रोदनश्रवणात् रुद्रो जीवः न ब्रह्मेत्याशक्याह- 'अतएवेति / अर्थवादस्य तत्परवचनविरोधे स्वार्थे प्रामाण्याभावात् न रुद्ररोदनादि प्रामाणिकमित्यर्थः /

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486