Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेदः 451 सगिकस्वतः प्रामाण्याय गुणानामपि सिद्धिः तात्पर्य विषयोभूतोपासनान्वितकार्ये गुणसत्त्वं विनापि प्रामाण्यस्य सिद्धत्वात् / अन्यथा प्राणसर्वात्मत्वाद्युपासनावाक्यानामप्रामाण्यप्रसंगात् / सर्वज्ञादिवाक्यप्रतिपाद्यब्रह्मण उपासनाशेषत्वाभावाच्च / ___अत एव निर्गुणवाक्ये साक्षित्वादिगुणो न विधीयते केवलो निर्गुणश्चति श्रुतिविरोधाच्च / न च तेन प्राकृतो गुणो निषिध्यते। आत्मातिरिक्तस्य प्राकृत. स्याभावेन प्राकृतनिषेधे निर्गुणत्वस्य सिद्धत्वात् / गुणश्रुतेः संकोचकाभावेन तदुपस्थापितनिखिलगुणेनापि नञोऽन्वितत्वाच्च / ज्ञानात्मकब्रह्मणोऽविद्ययेव सर्वज्ञत्वादिसंभवाच्च / अत एव न सत्यकामादिगुणवत्त्वम् / किञ्चावाप्तसकलकामस्य ब्रह्मणः कथं कामना ? कामनाया अनवाप्त. अज्ञातान्यतरविषयत्वात् / सिद्धे क्वचिदपि कामनाया अदर्शनात / नापि परार्थं कामना / एवमपि सर्वमुक्तौ तस्योगात् / न हि मुक्तानामपि किश्चिदवाप्तव्यमस्ति आत्मानं चेद्विजानीयादयमस्तीति पुरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् / उपास्यगुणसत्त्वं विनापासना.वधेरप्रामाण्ये दोषमाह-अन्यथेति / यः सर्वज्ञ इत्यत्रोपास्तेरश्रवणात् तच्छेषत्वमप्ययुक्तं ब्रह्मण इत्याह-सर्वज्ञादीति / यदुक्तं साक्षाचेतेति द्रष्टुत्वगुणो विधीयत इति तत्राह-अत एवेति / गुणस्यानपेक्षितत्वात् तद्विधो वाक्यभेदप्रसङ्गाच्चेत्यर्थः / उत्तरपदविरोधाच्च न गुणविधिरित्याहकेवल इति / गुण निषेधस्यान्यविषयत्वमुक्तमित्याशङक्याह-न चेति / अप्राकृतस्यात / सत्त्वादिगुणमयप्रकृत्यनात्मकस्येत्यर्थः / तदुक्तं भगवता-- न तदस्ति पृथिव्यां वा दिवि देवेष वा पुनः / सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिगुणः / / इति सर्वे गुणमया भावा इति / अप्राकृतगुणमङ्गीकृत्याप्याह-गुणश्रुतेरिति / नत्र इति / नत्रस्य निरासस्येत्यर्थः / सिद्धान्तेऽपि ब्रह्मणि सर्वज्ञत्वाद्यभ्युपगमात् कथ तन्निरास इत्यत्राह-ज्ञानात्मकेति / ज्ञप्तिरूपस्यापि ब्रह्मणः आविद्यकप्रपञ्चसंसर्गात् सर्वज्ञता प्रकाशात्मकस्य सवितुः घटादिसंसर्गात् तत्प्रकाशकत्ववदित्यर्थः / / अ.एवेति / वाक्यभेदादिदोषादेवेत्यर्थः / युक्त्यसहश्च ब्रह्मणि काम इत्याह-. कञ्चेति / किं ब्रह्मणः स्वपुरुषार्थविषयः कामः परपुरुषाथविषयो वा ? नाद्य इत्याहअवाप्तेति / आप्तसकलपुरुषार्थस्येत्यर्थः / हस्तगतविस्मृतसुवर्णादावाप्तेपि कामनादर्शनात् अज्ञातेत्युक्तम् / द्वितीयं दूषयति--नापीति / कुत्रापि परपुरुषार्थनुद्दिश्यान्यस्मिन् कामनाऽदर्शनादिति भावः। __ ईश्वर परार्थकामनामङ्गीकृत्यापि दोषमाह-एवमिति / मुक्तावपि विषयभोगकामनामङ्गीकुर्वाणमर्वाचीनं प्रत्याह-आत्मानं चेति / मुक्तेषु कामनाभ्युपगमे मुक्तेरनित्यता

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486