Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 473
________________ 452 सटोकाद्वैतदीपिकायाम् . पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः // एतबुद्धा बुद्धिमान् स्यात् कृतकृत्यश्च भारत। "आत्मलाभान्न परं विद्यते' इत्यादिशास्त्रात् मुक्तस्य कामनाप्रतिषेधात् / “स कामभिर्जायते तत्रतत्र" इति कामस्य संसारहेतुत्वश्रवणाच्च। नहि जीवस्य कामनां विना परस्य सा भवितुमर्हति / तदनिष्टं कामयत आप्तत्वायोगात् / न च सर्वमुक्तिरेव नास्ति / अविद्यावतां ज्ञाने सति तनियमात् / अन्यथा स्वस्य मुक्त्यनहत्वशङ्कया कोऽपि न प्रवर्तेत / मुक्तौ च परस्य कामनाविलये अनित्यानां हेयतया त्वदभ्युपगमविरोधः / अप'हतपाप्मत्वादयस्तु शुद्धबुद्धस्वरूपमेव सत्यकामादिकं तु स्तुतिः। अत एव सोऽन्वेष्टव्य इत्यदि य आत्मेति प्रकृतमिमात्रस्य द्रष्टव्यत्वमाह / एवं तात्पर्यलाघवं स्यात् / यत्तु आदित्यवर्णश्रुत्या ब्रह्म रूपवदिति। तदसत् आदित्यवर्णमिति हि स्वप्रकाशत्वं लक्ष्यते। तव मतेऽपि बहुव्रीह्यर्थयोर्लक्ष्यत्वात् "अशब्दमस्पर्शमरूपमव्ययं'' इति रूपनिषेधश्रुतिविरोधात् / न च प्राकृतरूपनिषेधः रूपशब्दस्य सामान्यवाचकत्वात् / ब्रह्मण आदित्यसमानवर्णत्वनिरासः च स्यादित्याह-सकामभिरिति / मुक्तानां कामनाऽभावेऽपि ईश्वरस्तदर्थकिश्चित् कामयत इत्याशङ्ख्याह-ने हीति / ननु कश्चन नित्यसंसारी तदर्थमीश्वरः सदा कामयत इति नेत्याहन च सर्वे त / मास्तु तहि सर्वमुक्तावीश्वरे कामनेत्यत आह-मुक्तीचेति / अनित्यस्य हेयत्वात् त्यक्तसकलहेयगुण इति त्वदभ्युपगमविरोध इत्यर्थः,स्वमते य आत्मा अपहतपाप्मेत्यादिश्रुत्यर्थमाह-अपहतेति / आरोपितपापाद्यभावस्य तद्विपरीताधिष्ठानमात्रत्वादिति भावः / यदुक्तं सोऽन्वेष्टव्य इति गुणानामप्यन्वेष्टव्यत्वं श्रूयत इति तत्राहअतएवेति / गुणे तात्पर्याभावादित्यर्थः गुणविशिष्टे तात्पर्यकल्पने गौरवं इतरत्र लाघवमित्याह-एवमिति / आदित्यवर्णमिति श्रुतेरादित्यवद्वणों यस्येति रूपवत्त्वप्रतीतेः सगुणं ब्रह्मेति परोक्तमनूद्य निराकरोति-यत्त्वित्यादिना / तहिलक्षणैव दोष इत्यत आहतवमतेऽपीति / मतद्वयेऽपिलक्षणायास्तुल्यत्वात् कथं विशेषसिद्धिरित्याशक्य अत्यन्तराविरोधाय स्वप्रकाशत्वलक्षणैवोचितेत्यभिप्रेत्याह-अशब्दमिति / ननु अरूपमिति रूपविशेषस्य निषेधः न रूपमात्रस्येति नेत्याह-न चेति / प्राकृतरूपस्यैव निषेधेऽपि आदित्यवर्णश्रुतेः तद्विरोधो दुर्वार इत्यभिप्रेत्याह-किञ्चेति / सादृश्यस्येति / प्राकृतरूपसाहश्यस्येत्यर्थः / किंच रूपवतः प्राकृतत्वनियमात् अप्राकृतस्यात्मनः तदनुपपन्नमित्याहअप्राकृतस्येति / रूपनिषेधश्रुतेः युक्त्यनुगृहीतत्वात् संकोचकत्वाभावाच्च नीरूपं ब्री

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486