Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 450 सटीकाद्वैतदीपिकायाम् त्वात् / जगत्कारणश्रुतेश्च निषेधार्थत्वात् / सर्ववेदान्तप्रत्ययन्यायेन निर्गुणादिवाक्यकवाक्यत्वात्। अन्यथा वाक्यभेदप्रसंगात्। स च सम्भवत्येकवाक्यत्वे न न्याय्यः / क्वचित्प्रमितब्रह्मोद्देशेनानेकगुणविधाने प्रतिवाक्यं वाक्यभेदप्रसंगः चित्राज्यनयवत्। न च सर्ववेदान्तः युगपदेवानेकगुणविशिष्ट क्रयणवद् ब्रह्म प्रतोयत इति वाच्यम् / तद्वदत्र सर्व वेदान्तानां पदैकवक्यत्वाभावात् वाक्यान्तरे प्रमितस्य होमा. धारवत् वाक्यान्तरे उद्देश्यत्वात् / न च ब्रह्मणोऽप्युपासनाशेषत्वातृ अपूयतया तदप्राप्तिः। वाचो धेनुत्वेनेवारोपितगुणेनाप्युपासनोपपत्तेः न च तथापि शब्दस्यौ. सर्वज्ञत्वश्रुतेः। जगत्कारगत्वानुवादस्तु निषेधार्थ एव / न च तनिषेधो न श्रूयत इति वाच्यम्। सर्ववेदान्तानामेकब्रह्मपरतया एकवाक्यत्वात् व्यवहितनिषेधेनाप्यन्वयात् / इतरथा सगुणनिगुणवाक्ययोः अन्योन्याकाङ्क्षाऽभावेनैकवाक्यत्वायोगात् वाक्यभेदः स्यात् / स चान्याप्यः / एकवाक्यतासंभवेऽपि वाक्यभेदाभ्युपगमेऽतिप्रसङ्गादित्यर्थः / किञ्च परमते क्वचित् प्रमितब्रह्मानुवादेन किं तत्र सर्वज्ञत्वादिगुणा विधीयन्ते / किं वा अरुणैकहायनीन्यायेन युगपत् सर्वगुगविशिष्टं ब्रह्म वेदान्तः प्रमोयत इति तत्राद्यस्तावदयुक्त इत्याह - क्वचिदिति / गुणानां परस्पराकाङ्क्षाविरहात् वैशिष्ट्यायोगात् एकैकगुणविधाने वावयपर्यवसानमित्युद्दिश्यानेकविधाने वाक्यभेद इत्यर्थः / तत्र दृष्टान्तमाह-चित्रेति / चित्रया यजेत पशुकामः पञ्चदशान्याज्यानीत्यत्र वाक्यान्तरप्राप्ताग्नीषोमीयपशौ चित्रत्वस्त्रीत्वविधौ वचनान्तरप्राप्तस्तोत्रसाधनत्वेन आज्यपञ्चदशसंख्याविधी यथा वाक्यभेदस्तद्वदित्यर्थः। द्वितीयनिराकरोति-न चेत्यादिना / क्रयणस्यारुण्यादेश्च लोकासिद्धतया सत्त्वरूपप्रतिपत्त्यर्थं पृथक् पदसमन्वयानपेक्षणात् तद्वाक्यस्य पदैकवाक्यतया युक्तं आरुण्याद्यनेकसाधनविशिष्टक्रयणकर्तव्यताबोधकत्वं इहतु ब्रह्मणस्तद्गुणादेवालौकिकत्वात् वेदान्तानां पृथक् समन्वये न तत्स्वरूपप्रतिपादनपूर्वकं ब्रह्मणि गुणादिसंसगप्रतिपादनाय इति वाक्यैकवाक्यत्वम् / ततश्च सत्यादिवाक्यप्राप्तब्रह्मणो गुणवावयेषूद्देश्यत्वं यथा अग्निहोत्रं जुहोति आघारमधारयतातिवाक्यप्राप्तयो)माघारयोः दध्ना जुहोति सन्ततमाघारयति इत्यत्रोद्देश्यत्वं तद्वत् ततश्च वाक्यभेदो दुर्वार इत्यर्थः / गुणवाक्येषु उपासनाविध्यङ्गत्वेन ब्रह्मणः प्रतीतेः तेन रूपेण वाक्यान्तरासिद्धत्वात् न तस्योद्देश्यतेत्याशक्य तथा सति न ब्रह्मणि वास्तवगुणसंबन्धसिद्धिरित्याह-न चब्रह्मण इत्यादिना / उपासनाविधिपरादपि वाक्यात् गुणसंबन्धस्यापि प्रतीतेः तस्याः स्वतः प्रमाणत्वात् तद्विषयोऽभ्युपेय इत्यत आह-न च तथापीति / शाब्दज्ञानस्य तात्पर्यविषय एव स्वतः प्रामाण्य न त्वन्यत्र विषं भुक्ष्वेत्यादिषु तथा दर्शनात् / मन्त्रादेरपि देवताविग्रहादाववान्तरतात्पर्याभ्युपगमात् / न च तथा अत्र निगुणत्वादिश्रुतिविरुद्धवान्तरतात्पर्यसंभव इति भावः /

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486