Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 448 सटीकाद्वैतदीपिकाया प्रकाशकज्ञानविशेष्यंसन्दिग्धत्वात विचार्यत्वात् निर्णतव्यत्वाच्च स्थाणुवत् / ब्रह्म वेदतात्पर्यगोचरप्रकारवत् वेदविचारविषयत्वात् यदेवं तदेवं यथा कर्मकाण्डार्थोधर्मः। ईश्वरः सदा वास्तवसमस्तकल्याणगुणः तदा तत्प्रेप्सुत्वे सति तत्र शक्तः त्वात् यो यदा यत्प्रेप्सुत्वे सति यत्र पाक्तः स तदा तद्वान् यथा चैत्रः, ईश्वरः सदा त्यक्तसमस्तदोषः तज्जिहासुत्वे सति तत्त्यागे शक्तत्वात यो यदा यज्जिहामुत्वे सति यत्यागे शक्तः स तदा त्यक्ततद्दोषः यथा चैत्रः / ब्रह्म वास्तवशरीरि च वक्तत्वात चैत्रवत विपक्षेऽधिष्ठानत्वसन्दिग्धत्वादिकं न स्यात् / न च निर्गुणवाक्यबाधः / तेषां प्राकृतगुणनिषेधपरत्वात् / सर्वज्ञत्वादिगुणानां मानान्तरेणाप्राप्तानां तेन निषेधायोगाच्च / श्रुतिप्राप्तस्य श्रुत्या निषेधे विकल्पप्रसंगात् / निगुणवाक्येऽपि साक्षी चेता इत्यादिद्रष्तत्वगुणविधानात न तेन तनिषेधः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्य इत्यादिगुणानामपि जिज्ञा. स्यत्वश्रवणाच्च / एष सर्वेश्वर इत्यादिना धर्मानुपन्यस्य तमेतं वेदानुवचनेनेति मुमुक्षोर्जेयत्वोक्तश्चेति / अनुमाननिरास: तन्न। सर्वज्ञत्वं तावत् श्रुत्या न प्रतिपिपादयिषितम् जगत्कारणत्व सामर्थ्यसिद्धस्य तस्य श्रुत्यप्रतिपाद्यत्वात् / नान्तः प्रशं न बहिः प्रज्ञ इत्यादिश्रुति. विरोधाच्च। किञ्च ब्रह्म सर्वज्ञं सर्वजिज्ञासुत्वे सति तत्र शतत्वात् यो यज्जिज्ञासुत्वे सति यत्र शक्तः स तत्प्रज्ञः चैत्रवदिति त्वदुक्तविधया ब्रह्मसर्वज्ञत्वसिद्धिः। न च मानान्तरसिद्धे श्रुतितात्पर्यम् / सर्वज्ञत्वादेः निष्प्रयोजनत्वाच्च श्रुतेस्तत्र तात्पर्यायोगात् / ___ साक्षीचेता केवओ निर्गुणश्चेत्यादिश्रुतिबाधितविषयाः सर्वे हेतव इत्याशक्य श्रुतेः प्रकृतिकार्यगुणनिषेधपरत्वात् अप्राकृतगुणानामनुमानगोचरत्वान्न विरोध इत्याहन च निगुणेति / गुणसामान्यनिषेधश्रुतेः कथं संकोच इत्याशक्य सङ्कोच आवश्यक इत्याह सर्वज्ञत्वादीति / निषेधायोगे हेतुमाह-अतिप्राप्तस्येति / विकल्पप्रसगादिति / न च वस्तुनि विकल्पसंभव इति भावः। द्रष्टुत्वेति / उदासीनत्वे [सति] द्रष्टुत्वस्य साक्षिपदार्थत्वादिति भावः। गुणविशिष्टब्रह्मणो ज्ञेयत्वश्रवणादपि गुणानां सत्यतेत्याहसत्यकाम इत्यादिना / गुणादिनिषेधश्रुतेः संकोचकाभावात् तद्विरुद्धत्वमित्यभिप्रेत्याह-- तन्नेति / ___ जगत्कारणेति / जगत्कर्तृत्वेनेश्वरसाधकानुमानेनैव सर्वज्ञत्वादिसिद्धेः अपूर्वताभावान्न तच्छृतिप्रमेयमित्यर्थः / ज्ञानसंवन्धमात्रनिषेधकश्रुतिविरोधादपि न सार्वश्यं श्रुतितात्पर्यगोचर इत्याह--नान्तः प्रज्ञमिति / कार्यलिङ्गकानुमानान्न सर्वज्ञत्वादिसिद्धिरिति मन्वान प्रत्याह-किञ्चेति / सर्वज्ञत्वादिगुणज्ञानान् प्रयोजनाभावादपि श्रुतेर्न

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486