Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 468
________________ 447 तृतीयः परिच्छेदः पादेयत्वप्रकाशत्वानुपपत्तेश्च / एवमन्येऽपि नित्यत्वादयो ब्रह्मणः स्वरूपमेव / न ततोऽतिरिच्यन्ते / वचनाद्यर्थोऽपि तथा / एवंविधस्व वाक्यार्थत्वमुपपादयिष्यामः / ब्रह्मणि धर्मसाधकाठमाना न यत्तु ब्रह्म सर्वज्ञत्वादिगुणकं शङ्खचक्राद्याकारं यः सर्वज्ञः सर्ववित् नारायण एवाग्र आसीत् न ब्रह्मा न च शङ्करः इति श्रुतेः / चतुर्भुजत्वाद्याकारोऽपि आनन्द एव आप्रणखात्सर्व एवानन्द'' इति श्रुतेः। गुणा अप्यानन्दा एव ब्रह्मणो हेयगुणानुपपत्तेः / एवं हिरण्यश्मश्रुवाक्यादपि साकार ब्रह्म : ब्रह्म मिसत्तासमानसत्ताकधर्मवत, उक्त सत्ताकभावभूतधर्मवद्वा, यावत् स्वस्वरूपमनुवर्तमानधर्मवद्वा स्वज्ञानाबाध्यधर्मवद्वा पदार्थत्वात घटवत् / ब्रह्म स्वज्ञानाबाध्यप्रकारवत स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा अधिष्ठानत्वात् शुक्तिवत् / ब्रह्म स्वज्ञानाबाध्य प्रक शेति / ज्ञानभिन्नस्य दृश्यतया मिथ्यात्वनियमादित्यर्थः / ज्ञानस्याप्यानन्दादितो भेदे दोषमाह-आनन्दादीति / प्रकाशत्वानुपपत्तेरिति / अनानन्दस्य घटादिवज्जडत्वनियमादिति भावः / न ततोऽतिरिच्यत इति / ध्वंसप्रतियोगित्वाद्यभावात्मकत्वाद्ब्रह्मणः ततो नित्यत्वनिरवयवत्वादि न भिन्नमित्यर्थः। एवमपि विभवत्यर्थो लिङ्गसङ्ख्यादि भिन्नोऽस्तीत्याशय सोऽपि गुणादाविव स्वरूपमेवेत्याह--बचनेति / एतादृशं ब्रह्म विमानमित्याशङ्य श्रुतिरेव मानं तत्रत्युत्तरपरिच्छेदे वक्ष्यत इत्याह-एवंविधस्येति / सगुणमेव ब्रह्म श्रुतितात्पर्यगोचर इति नवीनमतं दूषयितुमनुवदति--यत्त्वित्यादिना / साकारमिति / साकारं सशरीरमित्यर्थः अनुमानतोऽपि सविशेषं ब्रह्मेत्याह-ब्रह्मति / काल्पनिकधर्मस्य सिद्धान्तेप्यभ्युपगमात् तद्व्यावृत्तये धर्मिसत्तासमानसत्ताकेत्युक्तम् / एवमप्यतिरिक्ताभाववादिमते सिद्धसाधनमित्यत आह-उक्तसत्ताकेति / यावत्स्वरूपमित्यादौ स्वपदं समभिव्याहृतपरम् / ततश्च घटादेः न साध्यवैकल्यमिति भावः। आकारवदिति / धर्मवदित्यर्थः / अतिरिक्ताभाववादिसिद्धसाध्यतावारणाय स्वारोपितव्यावर्तकेत्युक्तम् / अभावविशिष्टज्ञानस्य बाधकत्वानभ्युपगमान् तदतिरिक्तधर्मसिद्धिरिति भावः / स्वशानात / स्वविषयज्ञानेनाबाध्यः प्रकारो यस्य ज्ञानस्य तस्य विशेष्यतयाविषय इत्यर्थः / तत्र शक्तत्वादित्येतावत्युक्ते सामान्यव्याप्तौ विरक्ते व्यभिचारः तन्निवारणाय तत्प्रेत्सुत्वे सतीत्युक्तम् तावन्मात्रं अशक्त व्यभिचारीति तत्रशक्तत्वादित्युक्तम् / उत्तरानुमाने परदारगमनादिपति व्यभिचारवारणाय तज्जिहासुत्वे सतीत्युक्तम / वास्तवशरीरीति / न चात्र साध्यवैकल्यं शङ्ख्यं चैत्रे सशरीरत्वस्य प्रामाणिकत्वेन वास्तवत्वादित्यभिमानः /

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486