Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ तृतीयः परिच्छेवः 445 संबन्धित्वस्य तवासति अस्माकं शुक्तिरूप्यादौ सत्त्वाच्च / पञ्चमस्तु बहुधा निरस्तः। प्रपञ्चः सन्असदन्यत्वादिति सत्प्रतिपक्षनिरास: ___यत्तु असदन्यत्वेन प्रत्यनुमानं / तन्न / असिद्धः / नापि प्रत्यक्षबाधः, तदुपदशितार्थसत्ताया अनुमानेनानिराकरणात् / नार्थक्रियायोग्यत्वं विद्यमानत्वं वाऽनुमानेन निषिध्यते। बाधायोग्यत्वमपि तद्विषयं नानुमानं बाधते परं तु तदन्यदीयमिति निवेदयति / न च सन् घट आत्मनो भिन्न इत्यनुभवविरोधः तस्यापि विशेष्यमात्रविषयत्वात्। न च कर्मकाण्डप्रामाण्यभंगप्रसंगः। तत्प्रमितसाध्यसाधनभावस्य शब्दान्तरादिप्रमाणसिद्धभेदस्य चाभावे तत्प्रामाण्यायोगादिति वाच्यम् / न हि प्रपञ्चमिथ्यात्वानुमानं यागादि स्वर्गादिसाधनं न भवति / कम णि अनिर्वचनीयेऽपि संभवात् अबाधितार्थरूपायास्तस्याः श्रुतिबाधितेऽसंभवादित्यर्थः / अस्तित्वस्य विद्यमानतापरपर्यायत्वात् अनिर्वचनीयेऽपि तदुपपद्यत इत्याह--सतामिति / सत्वाच्चेति / चशब्देन प्रपञ्चे कालसंबन्धित्वरूपं सत्त्वमद्वैतश्रुत्यविरुद्धत्वादिष्टमिति सूचयति - बहुधा निरस्त इति / असच्छब्दप्रत्यययोः निविषयत्वोपपादनात् तदभावो नाम न किञ्चिदित्यर्थः। असिद्धेरिति / असत्प्रतियोगिकभेदस्यानिरूपणादित्यर्यः / सत्त्वाभावविशिष्टस्यासतो विपक्षस्यासंभवात् तद्वयावृत्तये हेतावसद्विशेषणं व्यर्थमित्याह--असत्पदेति / किञ्च विमतं सदित्यत्र किं सत्ताधिकरणत्वं साध्यं तद्वैशिष्ट्यं वा? नाद्यः सत्त्वे व्यभिचागत् / न द्वितीयः अधिष्ठानात्मरूपसत्त्ववैशिष्टयस्य मायिकेऽपि संभवात् अप्रयोजकत्वाच्चेति भावः। यदप्युक्तं / 'सन् घट' इत्याद्यध्यक्षबाघ इति तत्राह-नापीति / किमध्यक्षविषयः सत्त्वमर्थक्रियायोग्यत्वं विद्यमानत्वं वा बाधायोग्यत्वं वा? तत्राद्ययोः मायिकत्वेऽपि संभवात् न विरोध इत्याह--नदुपदर्शितेति / तृतीयेऽपि न विरोधः, सन् घट इति प्रत्यक्षस्य घटतादात्म्यापन्नसति सत्त्ववैशिष्टयविषयत्वात् मृद्धट इति प्रत्यक्षे घटतादात्म्यापन्नमृदि मृत्त्वविषयत्ववत् / तच्च सदात्मैवेत्यनुमानादिना निश्चीयत इत्याह-बाधायोग्यत्वमिति / सदबुद्धिविषयस्यानात्मन आत्मनो भेदानुभवात् आत्मसत्तैव न सद्बुद्धिगोचर इत्याशब्याह-न चेति / विशेष्यमात्रेति / घटस्यैवात्मभेदस्तस्य विषयः नतु विशेषणस्य सतोऽपि तदनुभवस्यान्यथाप्युपपत्तेरित्यर्थः। मिथ्यात्वानुमान कर्मकाण्डाप्रामाण्यप्रसङ्गलक्षणवाधकतर्कपराहतमित्यपि न वाच्यमित्याहन चेति / किं साध्यसाधनभावादिमात्रं कर्मकाण्डप्रमेयं उत तम्मिथ्यात्वाभावोऽपि? आये न विरोध इत्याह--न हीति / कर्माणि शास्त्राणि वेति--प्रस्थानभेदेनोक्तम् / द्वितीयाध्यायप्रमेयः कर्मभेद इति वार्तिककारीयाः। शास्त्रभेद इति प्राभाकराः तदुभयं न निषिध्यते

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486