Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 464
________________ तृतीयः परिच्छेदः ततश्च लौकिकमेव तस्य सर्वगतत्वम् लौकिकं च मानं न ब्रह्मसमानपरिमाणं गृह्णाति यावत्तत्कार्य तावत्येव ततस्तत्सिद्धेः / सर्वत्र कार्य प्रमाणाभावात् / एतेन आकाशादेमिग्राहकमानसिद्धं विभुत्वमिति निरस्तम् / यदपि कालादेरभावे ब्रह्मणोऽप्यस्तित्वासिद्धिरिति। तन्न। किमस्तित्वं सत्ता, वर्तमानत्वं वा? नाद्यः त्वदभिमतासत्यस्यापि इदानीमसदिह रजतं इत्यनुभवेन तत्सत्त्वात् / न द्वितीयः ब्रह्मणो वर्तमानत्वधर्माभावात् / कालदिशोः सत्त्ववर्तमानत्वानुपपत्तेश्च तयोस्तत्संबन्धाभावात् तयोरेकैकत्वात् / स्ववृत्तित्वानुपपत्तेश्च। अतएवास्तित्वावगमेऽपि न तदपेक्षा / यावदस्तित्वव्यवहारमवकाशादिसत्त्वाच्च / 'सदेव सोम्येदमग्र आसीदिति श्रुतिश्च अनभिव्यक्तकालसंबन्धादुपपद्यते / अन्यथा इदं सर्व सदेवासीदिति कालादेः कारणात्मत्वश्रुतिविरोधात् / अविद्येव कालः वस्तुतस्तु अविद्यादिरेव काल इत्युक्तम् / एतेन देशः सर्वत्रास्ति कालः सर्व रणायोगादिति / अप्रसिद्धस्य दृष्टान्तत्वासंभवेन तदर्थं वत्पदप्रयोगादित्यर्थः / आकाशस्य सर्वगतत्वाभावेनात्र कथं स दृष्टान्त इत्याशङक्याह-ततश्चेति / सर्वगतत्वं दृष्टान्तश्रुत्यर्थ इति शेषः / तहि लौकिकमानादेवाकाशस्य अपरिच्छिन्नत्वसिद्धिरिति नेत्याह-लौकिकं चेति / तत्कार्य शब्दादि। शब्दादेः सर्वत्रोपलब्धः तदाश्रयाकाशादेः सर्वगतत्वमित्याशक्य ब्रह्माण्डबहिः शब्दादिकार्ये मानाभावात् मैवमित्याह--सर्वत्रेति / कार्यस्यासार्वत्रिकत्वादेवान्यदपि परोक्तं निरस्तमित्याह--एतेनेति / देशकाल विना आत्माऽस्तीत्यस्य व्याहतिरित्युक्तमनुवदति -यदपीति / किमस्तित्वमेव देशादिसंबन्धाघीनं उत तदबगमः तत्राद्येऽपीदं वक्तव्यमित्याह -तत्रेति / तत्सत्त्वादिति / देशकालसंबन्धसत्वादसतोऽपि सत्त्वापात इति भावः। धर्माभावादिति / तस्य निर्धर्मकत्वादित्यर्थः / सत्त्वादेः देशकालसंबन्धाधीनत्वे बाघकमाह-कालदिशोरिति / कि कालादेः कालादिना संबन्धः उत स्वेनैव, नाद्य इत्याह-तयोरिति / द्वितीयस्तु न संभवतीत्याह-स्ववृत्तित्वे त / देशादिसम्बन्धाभावेपि देशादावस्तित्वावगमादेव न द्वितीयोऽपीत्याहअतएवेति / देशादिसंबन्धं विना कथमस्तीति विशिष्टव्यवहार इत्यत आहयावदिति / प्रलयावस्थायामपि कालश्रवणात् तस्य नित्यत्वमुक्तमपवदति-सदेवेति / अनभिव्यक्तति / संस्कारात्मककालसंबन्धादित्यर्थः / पराभिमतकालस्य तदा सत्त्वे बाधकमाह-अन्यथेति, एवं अविद्याद्यतिरिक्तकालमङ्गीकृत्य परिहार उक्तः वस्तुतः स एव नास्ति मानाभावादित्याह-वस्तुत इति / अविद्यासंबन्धेश्वराद्यादिपदेन गृह्यते / परोक्तानुभवोऽपि न सर्वगतत्वविषयः, प्रत्यक्षस्य तत्रासामर्थ्यात् / अन्यस्य च निरस्तत्वात् / ततश्च सोऽपि आपेक्षिकमहत्त्वविषय इत्याह--एतेनेति ! अज्ञानेऽप्युक्ताम

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486