Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 442 सटीकाद्वैतदीपिकायाम् त्वमिति न ब्रह्मणि व्यभिचारः। न चासति व्यभिचारः तस्यैवाभावात् / स्वसमानसत्ताकवृत्तिविषयत्वं वा / निर्गुणे ब्रह्मणि वृत्तिविषयता च नेवं, शक्तिरजतादावपि परोक्षवृत्तिविषयत्वमस्तीति न दृष्टान्तः साधनविकलः / अत्त एव न सुखादावसिद्धिः। जडत्वमपि चैतन्यान्यत्वं नाज्ञातृत्वम् ब्रह्मणोऽप्यज्ञातृत्वात्। वृत्तिश्च न चैतन्यम् / अन्तःकरणातिरिक्ताहमितिव्यवहारगोचरान्यत्वं वा जडत्वम् / परिच्छिन्नत्बनिरुक्तिः परिच्छिन्नत्वमपि देशतः कालतो वस्तुतश्च। देशपरिच्छेदश्च स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वम्। कालपरिच्छेदश्च ध्वंसप्रतियोगित्वम्, वस्तुपरिच्छेदश्च स्वसमानसत्ताकभेदवत्त्वम् इति न ब्रह्मणि व्यभिचारः। कालाकाशदिशामपि देशकालपरिच्छेदोऽस्त्येव / अपरिच्छेदे प्रमाणाभावात् / परिच्छेदे च जडत्वादिलिङ्गस्य श्रुतेश्च सत्त्वात् / अन्यथाऽऽकाशादेः कार्यत्वानुपपत्तेः उत्पत्तिमतां च कालादिपरिच्छेदो नियतः। न चाकाशवत्सर्वगतश्च नित्य इति श्रुतिविरोधः। न हीयं श्रुतिः आकाशस्य नित्यत्वं सर्वगतत्वं वा बोधयति / किन्तु लोकप्रसिद्ध या। तदृष्टान्तेन ब्रह्मण एव। अन्यथा वाक्यभेदापत्तः। श्रुत्यव सर्वगतत्वप्रतिपादने वत्करणायोगाच्च / तस्यैवाभावादिति / सदसतोः समानसत्ताकत्वायोगाञ्चेत्यपि द्रष्टव्यम् / दृश्यत्वनिरुक्त्यन्तरमाह-स्वसमानेति / नैवमिति / ब्रह्मविषयवृत्तेस्तत्समानसत्ताकत्वाभावादिति भावः / रूप्यादेरिच्छादेश्च वृत्तिविषयत्वाभावात् साधनवैकल्यं भागासिद्धिश्चेत्याशङक्याह- शुक्तीत्यादिना / जडत्वहेतुमपि समर्थयते - जडत्वमपीति / अज्ञातृत्वादिति / ज्ञानानाश्रयत्वादित्यर्थः / सिद्धान्तेऽन्तःकरणे भागासिद्धिवारणाय अन्तःकरणातिरिक्तेत्युक्तम् / परिच्छिन्नत्वादित्यत्रापि हेतुत्रयं विवक्षितमित्यभिप्रेत्याहपरिच्छिन्नत्वमपीति / देशपरिच्छिन्नत्वादिकं क्रमेण निर्वक्ति-देशपरिच्छेदश्चेत्यादिना / न च स्वाधिकरणवृत्त्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमिति साध्याविशेष इति शक्यम् ।अव्याप्यवृत्तित्वमात्रस्य तेन विवक्षितत्वात् / जडमात्रस्य ब्रह्मण्यव्याप्यवृत्तित्वात् / एतच्च अधिष्ठानातिरिक्तात्यन्ताभाववादिमतेनेति द्रष्टव्यम् / प्रथमद्वितीययोः देशकालादिषु परोक्तामसिद्धि निराकरोति-कालाकाशेति / श्रुतेश्चेति / पादोऽस्य सर्वाभूतानि, यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतेरित्यर्थः / अर्थापत्तिमप्याह - अन्य थेति / यदुक्तं आकाशादेशाद्यपरिच्छिन्नत्वं श्रुतिसिद्धमिति / तत्राह-न चाकाशवदिति / आकाशस्य सर्वगतत्वेऽपि तात्पर्य किं न स्यादित्यत आह--अन्यथेति / वत्क

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486