Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 461
________________ 440 सटीकाद्वैतदीपिकायाम् वत्तिरेव विशेषकारणमस्त्विति निरस्तम् / तद्विषयप्रकाशस्यानात्मव्यवहारे सामान्यकारणत्वे बाधकाभावात् / किञ्च वृत्तेरपि वृत्तित्वेनैव न हेतुता, अतिप्रसक्तेः / तद्विषयवृत्तिश्चेत् तहि क्लप्तत्वात विनिगमकाभावात् तद्विषयं चैतन्यमपि व्यवहारहेतुः, तदेव वा, तद्विषयचैतन्यादेव तदुपपत्तेः। वृत्तिश्चैतन्यस्य तद्विषयत्वसंपादिकवेति न व्यवहारहेतुः। साक्षिणा घटव्यवहारनिरासः अर्थवमज्ञाततया सर्वस्य साक्षिभास्यत्वात् वृत्ति विनापि घटादेर्व्यवहारः स्यादिति। मैवम् / अज्ञातव्यवहारस्येष्टत्वात् विशेषव्यवहारे अज्ञाततायाः प्रतिबन्धकत्वात् / एवं ब्रह्मणः सर्गज्ञत्वार्थमपि प्रपञ्चस्य प्रकाशविषयत्वमुपेयम् / तस्यान्तः करणबृत्त्यभावात् अविद्यावृत्तेश्चाज्ञानत्वात् तस्मात् प्रपञ्चः चैतन्यविषयः जडत्वादिच्छावत् / चैतन्यविषयकाविद्यानिवृत्तिरपि स्वविषयबृत्तिप्रतिबिम्बादेवोपपद्यते। तत्संस्कारोऽपि स्वविषयसत्तानिश्चयनाशजन्यो विशिष्ट प्रकाशविनाशादेवोपपद्यते। घटादिव्यवहारे वृत्तिा वृत्तित्वेन हेतुः उत तद्विषयवृत्तित्वेन नाद्य इत्याह - किञ्चेति / द्वितीये वृत्तिप्रतिबिम्बितचित्प्रकाशस्यापि तद्विषयत्वेन व्यवहारहेतुत्वसिद्धिरित्याहतद्विषयेत्यादिना। वस्तुतस्तु वृत्तेर्जडतयाऽर्थप्रकाशात्मत्वायोगेन व्यवहारहेतुत्वाभावात् तद्भिब्यक्तघटादिविषयचैतन्यमेव तद्वयवहारहेतुरित्याह--तदेवेति / वृत्तरप्यन्वयादिना व्यवहारहेतुत्वमावश्यकमित्याशङ्क्यान्यथासिद्धिमाह--वृत्तिरिति / चैतन्यस्य साधारणस्य तत्तद्विषयवृत्त्यवच्छेदादेब तत्तद्विषयतेति वृत्तिश्चिदुपरागसम्पादिकवेत्यर्थः / घटादिविषयचित्प्रकाश एव व्यवहारहेतुरित्यभ्युपगमेऽतिप्रसंग इति शङ्कते-अथैवमिति / किमत्र व्यवहारमात्रमापाद्यते, उतासाधारणविषयव्यवहारः ? आद्यस्त्विष्ट इत्याह-मैवमिति / द्वितीयस्त्वयुक्त इत्याह--विशेषेति / / चिद्रूपब्रह्मणः सर्वज्ञत्वानुपपत्त्यापि प्रपञ्चस्य चिद्विषयत्वसिद्धिरित्याह-एवमिति / अज्ञानत्वादिति / क्लृप्तज्ञानकारणाजन्यत्वेन ज्ञानत्वायोगादित्यर्थः। तत्रैवानुमानमप्याह-तस्मादिति / तृतीयं निराकरोति-चैतन्येति / अविद्यानिवृत्तावपि चित्प्रकाश मात्रमेव हेतु: न तत्समानविषयप्रकाशः। न चातिप्रसङ्गः अविद्यासमानबिषयापरोक्षवृत्तः तत्र सहकारित्वादिति भावः / चतुर्थं दूषयति-तत्संस्कारोऽपीति / सर्वत्र संस्कारस्य स्वविषयसत्तानिश्चयनाशाधीनत्वात् आत्मसंस्कारस्यापि स्वविषयसत्तानिश्चयस्य वृत्त्यादिविशिष्टात्मरूपप्रकाशस्य वृत्त्यादिविनाशे विशिष्टरूपेण विनाशात् तत एव तत्संस्कारोपपत्तिरित्यर्थः।

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486