Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 460
________________ 439 तृतीयः परिच्छेदः यत्सामान्यंतद्विशेषे तद्विशेष इति न्यायेनादोषत्वात् / स्वस्य स्वविषयत्वानुपपत्तिः किञ्च विषयत्वं स्वरूपसंबन्धविशेषः। संबन्धश्चभिन्नयोरेवेत्युक्तम् / ततो न स्वयं स्वविषयः / सर्वजिज्ञासा च न स्वविषयिणीत्युक्तम् / अस्तु तहि सर्वत्र व्यवहारविषयत्वे वृत्तिविषयत्वमेव प्रयोजकं / न इच्छा. दिव्यवहारे तदभावात्। तत्र चेत् प्रकाशविषयत्वं प्रयोजकं तहि सामान्यकारणत्वे बाधकाभावात् अनात्मव्यवहारमात्रे तत्प्रयोजकम् / न चेच्छादिव्यवहारोऽपि प्रकाशमात्रजन्यो न तु तद्विषयप्रकाशजन्य इति वाच्यम् सामान्यकारणमात्रात् इच्छादिविशेषव्यवहारायोगात्। विषयश्च नाभिवदनव्यवहारे हेतुः प्रागभावश्च न कारणमित्युक्तम् / न चादृष्टात्सामग्रीभेदः दृष्टकारणभेदात् तद्भदे सम्भवति तस्याभेदकत्वात् / अन्यथा कारणविशेषः क्वापि न कल्प्येत। घटादिव्यवहारेवृत्तेर्हेतुतानिरूपणम् ____एतेन इच्छादिव्यवहारेऽस्तु तद्विषयः प्रकाशः कारणं, घटादि०.वहारे तु प्रकाशमात्राधीनव्यवहारयोग्यतया तस्य तद्विषयत्वं न कल्प्यम्। अन्यथा परमते घटादीनां जन्यप्रत्यक्षगोचरत्वे तज्जनकसन्निकर्षाश्रयत्वं प्रयोजकमिति तेषामजन्यप्रत्यक्षगोचरता न स्यादिति भावः। यद्वा अभेदस्य स्वरूपत्वेऽपि तस्मिन् अभिन्न इति व्यवहारो घट एव घटत्ववत् अभेदारव्यः कश्चिद्धर्मः कल्पितः स एवात्मव्यवहारे विशेषकारणमस्तीति भावः / अनात्मव्यवहारत्वेन स्वविषयप्रकाशजन्यत्वकल्पनायां गौरवात् व्यवहारत्वमेव तदवच्छेदकमित्याशक्य तद्विशेषकारणजन्यतावच्छेदके गौरवस्य सर्वत्राभ्युपगमात् न विरोध इत्यभिप्रेत्याह-न चैवमित्यादिना। किञ्च आत्मातिरिक्तप्रकाशानिरूपणात् आत्मनश्च विषयत्वासम्भवात् तद्व्यवहारे न स्वविषयप्रकाशो हेतुरित्यभिप्रेत्याहकिञ्चेति / स्वविषयिणीति / इच्छाविषयस्य ज्ञातत्वेन तद्विषयत्वायोगादित्यर्थः। प्रपञ्चेऽपि दृश्यत्वस्यासिद्धिं शंकते-अस्तु तहीँ त / इच्छाज्ञानादिवृत्तीनां वृत्तिविषयत्वं विनाऽपि व्यवहारदर्शनात् तत्र चित्प्रकाशविषयत्वमेव व्यवहारप्रयोजकमिति आत्मव्यवहारमात्रे तत्प्रयोजकमित्याह--नेच्छादीति / आत्मव्यवहार इवेच्छादिव्यवहारेऽपि प्रकाशमात्रमेव हेतुः / न तु तद्विषयः प्रकाशः येनान्यत्रापि तद्विषयत्व कल्प्येत इत्याशङ्येच्छादिविषय विशेषव्यवहारस्य प्रकाशमात्रजन्यत्वेऽतिप्रसङ्गान्नैवमित्यभिप्रेत्याह-न चेच्छादीति / इच्छादिव्यवहारे स्वविषयः स्वप्रागभावः अदृष्टविशेषश्च विशेषहेतुः अतो विशेषव्यवहारोपपत्तिरित्यत आह-विषयश्चेत्यादिना / अदृष्टविशेषा देव कार्यविशेषोपपादने बाधकमाह-अन्यथेति / रूपाद्यपलब्धिरूपकार्यविशेषस्यादृष्टविशेषादेवोपपत्तेः चक्षुरादिविशेषकारणं न कल्प्येतेत्यर्थः / इच्छादौ प्रकाशविषयमन्तरेण व्यवहारानुपपत्तिश्चेत् तत्रैव तत्कल्प्यतां नान्यत्रेत्याशङ्क्याह - एतेनेति / किञ्च

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486