Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 470
________________ तृतीयः परिच्छेदः 449 न च मोक्षार्थ तज्ज्ञानं, तमेव विदित्वाऽमृत्वमेतीति ब्रह्म मात्रज्ञानस्यैव मोक्षोपायत्वात् / न च सगुणं ब्रह्म प्रस्तुत्य तमेवं विद्वानमृत इह भवतीति गुणप्रकारकज्ञानस्य मोक्षहेतुत्वं श्रूयत इति वाच्यम् / तत्रापि पुरुष एवेदं सर्वमिति प्रस्तुतसात्म्यिस्यैव एवंशब्दार्थत्वात् / इतरस्य तच्छेषत्वात सात्म्यि च ब्रह्मणः सर्वोपमर्दे भवति इत्यखण्ड एव तत्तात्पर्यम् / अन्यथा प्रस्तुतपृथिव्यादिज्ञानस्यापि मुक्तिहेतुत्वे तमेवेत्यादिशास्त्रबाधप्रसंगात 'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित: / तमेवे' त्यादिशास्त्रमपि अधिष्ठानात्मन एव ज्ञातव्यतामाह / यस्मिन्नासने चंत्रो वर्तते तदानयेत्यत्रेव तच्छब्दस्याधारमात्रपरत्वात् / अन्यथा एकवानुद्रष्टव्यमित्यादिशास्त्रविरोधात् / ब्रह्मणः सर्वज्ञत्वाद्यनुवादे फलम् न चैवं सर्वज्ञत्वानुवादवैफल्यम् / जगत्कारणस्य ज्ञप्तिस्वरूपप्रतिपादनार्थ तत्परतेत्याह-सर्वज्ञत्वादरिति / सर्वज्ञत्वादिगुणविशिष्टब्रह्मज्ञानस्य मुक्ति: फलमित्यत आह-न च मोक्षार्थमिति / तमेवेत्येवकारेणात्मव्यतिरिक्तज्ञानस्य मोक्षहेनुत्वव्यावर्तनात् न गुणादिज्ञानं मोक्षहेतुरित्यर्थः। सहस्रशीर्षेत्यादिना सगुणब्रह्मोपक्रम्य तज्ज्ञानस्यापि मुक्तिजनकता श्रयत इत्यत आह-न च सगुणमिति / पुरुषसार्वात्म्यस्यैव तत्र प्रतिपाद्यत्वात् गुणादिप्रपञ्चसृष्टेस्तदर्थत्वेनाभिधानात् तज्ज्ञानमेवंशब्दार्थ इत्याहतत्रापीति / ब्रह्मणः सर्वात्मत्वे सर्वस्य सप्रकारत्वात् ब्रह्मापि तथेति वेदान्तानामखण्डपरत्वक्षतिरित्याशङ्क्याह - सात्म्यिं चेति / जडप्रपञ्चस्य परमार्थत्वे चिद्रूपात्मनो वस्तुतस्तदात्मत्वायोगात् मिथ्याप्रपञ्चस्याविष्ठानब्रह्ममात्रतया परिशेषात् सर्वात्मत्वं तच्चाखण्डमेवेत्यखण्डपरत्वं वेदान्तानामित्यर्थः / एवंशब्दस्य प्रस्तुतमात्रपरत्वे बाधकमाह-अन्यथेति / किञ्च “यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्टितः। तमेव मन्य आत्मानं' 'विरजःपरआकाशादज आत्मा महान् ध्रुवः। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः" यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः / तमेवैकं जानथ आत्मानं” इत्यादिश्रुतिष्वेवकारेणातिरिक्तस्य मन्तव्यत्वादिनिषेधात् अखण्डात्मबोध एव पुक्त्युपाय इत्याह-यस्मिन्निति / प्राणचक्षुः श्रोजत्वङ्मनांसि पञ्च पञ्चजन शब्दार्थः / तमेव मन्य इत्यादी प्रस्तुतात्मानात्मविशिष्ट एव तच्छब्दार्थ इत्याशक्याह-यस्मिन्नासन इति / सर्वज्ञत्वजगत्कारणत्वादेः अन्यतः सिद्धत्वेऽपि तदनुवादमात्रस्य वैफल्यात् श्रुतेस्तत्परत्वमित्याशङ्क्याह-न चैवमिति / सर्वोपादानस्य ब्रह्मणश्चिद्रूपत्वे प्रतिपादिते तस्य सर्वविषयत्वमर्थसिद्धमिति वाक्यस्य न तत्परत्वं य अर्थादर्थो न स चोदनार्थ इति न्यायात् / ततश्चानन्यलभ्यत्वात्, लाघवात्, अद्वितीयश्रुत्यपेक्षितत्वाच्च चैतन्याभेदपरत्वं

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486