Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 446 सटीकाद्वैतदीपिकायाम् शास्त्राणि वा न भिन्नानीति बोधयति / मिथ्यात्वाभावश्च न तद्विषयः तस्मात् दृश्यत्वानुमानं सुस्थम / एवं सन् घट इत्यादिप्रत्यक्षस्यानुपपत्तिरपि मिथ्यात्वे मानम जडस्य कल्पितत्वं विना लाघवादिनिर्णीतंकप्रकाशात्मकसत्तादात्म्यायोगात्। सद्ब्रह्म ति बुद्धेरधिष्ठानविषयत्वनिरासः यत्त्वत्र नवीनेनोक्तम् / सदब्रह्मेतिबुद्धिरपि एवं तदधिष्ठानविषया स्यादिति / (दसाधु / सतः प्रकाशात्मत्वे तस्यैव सतो ब्रह्मत्वात् / अप्रकाशत्वे च चेतने ततः सदबुद्धयनुपपत्तिः दृश्यस्य सत्त्वायोगाच्च / तस्मात् यद् दृश्यं तन्मिथ्या, दर्शनं तु ब्रह्म सत्यमित्यद्वैतं ब्रह्मेति सिद्धम् / सिद्धान्तरहस्याम् शृणुत मतरहस्यं सत्यबोधात्ममोहात् सदिव निखिलमेतत् विश्वमाभाति नूनम् / सुखघनतनुविष्णुः सत्पराको ( सत्स्वरूपो ) ? ऽत्र मानं नरहरिरभिधत्ते नात्र काचिद्भिदेति // ___ तच्च सद्रूपं ब्रह्म ज्ञानानन्दात्मकं सत्यंज्ञानमनन्तं ब्रह्म को ह्येवान्यात कः प्राण्यात यदेष आकाश आनन्दो न स्यात् आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते' इत्यादिश्रुतेः / प्रकाशभेदे आनन्दादेः सत्यत्वानुपपत्तेः। आनन्दादिभेदे प्रकाशस्यो घटादिभेदतुल्यस्य तस्याभ्युपगमादित्यर्थः। द्वितीयस्त्वनुपपन्नः कर्मतत्फलादेः सत्यत्वबोधकपदाभावादित्यभिप्रेत्याह--मिथ्यात्वाभावश्चेति / अनुमाननिरवद्यतानुपसंहरतितस्मादिति / प्रपञ्चमिथ्यात्वेऽर्थापत्तिरपि मानमित्याह-एवमिति / लाघवादिति / सदेव सोम्येत्यादिना ब्रह्मण एव सत्यतावगमात् सदाकारबुद्धेर्लाघवात् तद्विषयतावगमात् तस्य जडत्वे वेद्यतया सत्यत्वायोगात् स्वप्रकाशताया आवश्यकत्वात् घटादेर्जडस्य तत्तादात्म्यानुभवस्य तत्र तत्कल्पितत्वेन विनाऽनुपपत्तेः तन्मिथ्यात्वमुपेयरित्यर्थः / घटादौ सद्बुद्धरधिष्ठानविषयत्वे परोक्तातिप्रसङ्गमुद्भाव्य निराचष्टे यत्त्वरेत्यादिना / सद्ब्रह्मेति प्रतीयमानं सत् चिद्रपं जडरूपं वा, आये तस्यैव ब्रह्मत्वेन तन्न तदधिष्ठानमित्याहतस्येति / द्वितीये तस्य चेतनाधिष्ठानत्वायोगात् तत्संबन्धाच्चेतने सद्बुद्धिरित्यनुपपन्नमित्याह-अपकाशत्वे चेति / किञ्च जडस्य कल्पितत्वं विना चित्संबन्धायोगात् तस्य सत्ताप्यनुपपन्नेत्याह-दृश्यस्येति / फलितमाह-तस्मादिति / दृश्यं सर्वमारि द्यकं दृग्रपब्रह्मैव सत्यमित्युपपादितं श्लोकेन संगृह्णाति-शृणुतेति / श्रुतेनिश्वसितवदीश्वरकर्तृकत्वान्नरहरिरभिधत्त इत्युक्तम् / 'नात्र कारन भिदे'त्यनेन 'नात्र काचनभिदाऽस्ति, नैवात्र काचनभिदा' इत्यत्र भिदामिव मन्यमानः शतधा सहस्रधाभिन्नो मृत्योः स मृत्युमा नोति 'इति श्रुतिरर्थ'तो गृहीतेति द्रष्टव्या / एवं हेयस्वरूपं निरूप्योपादेयब्रह्मस्वरूपं निरूपयितुमाह-तच्चेति / युक्तितोऽपि ज्ञानानन्दाद्यभेदमाह

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486