Book Title: Adwait Dipika Part 02
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 444 सटीकाद्वैतदीपिकायाम् त्रास्ति इत्यनुभवान्न तयोः अवच्छेद इति प्रत्युक्तम / तदनुभवमलप्रमाणाभावात् / ब्रह्माण्डव्यापित्वविषयतया तदुपपत्तेश्च / एवमज्ञानस्यापि सर्वगतत्वे प्रमाणं न पश्यामः। विनाशित्वाच्च परिच्छिन्नत्वानुमानम / न चैवं तस्यानवच्छिन्नब्रह्मावारकत्वानुपपत्तिः विभागप्रक्रियायां निरूपितावरणस्य परिच्छिन्नेनाप्युपपत्तः / सत्त्वनिर्वचनम् यत्तु सत्वं त्वदभिमतमिथ्यात्वाभावो वा असद्विलक्षणत्वे सति अनारोपितत्वं वा अस्तित्वप्रकारकप्रमा प्रति कदाचिद्विषयत्वं वा कालसंबन्धित्वं वा अस्मदभिमतासत्त्वाभावो वेति / तत्राद्यस्तावदयुक्तः तव प्रतियोग्यसंप्रतिपत्तेः / अस्माकं तु अद्वैतश्रुतिविरोधात् प्रपञ्चे न तदभावोऽस्ति श्रुतेरर्थमधिगन्तुं तन्निर्वाहे च प्रभवोऽस्मद्गुरवः नतु तां बाधितुम् / द्वितीयेऽपि अनारोपितत्वं नाम भ्रमाविषयत्वं, अनिर्वचनीयत्वाभावः, असत्त्वाभावो वा ? आद्य शुक्त्यादेरसत्त्वप्रसङ्गः। द्वितीयस्तु दूषितः-न चरमः विशेषणविशेष्यभेदात् / तस्य निरस्तत्वाच्च / न तृतीयः सत्त्वप्रयोजकप्रमाया दुनिरूपत्वात् / सत्तां विना विद्यमानत्वमात्रेण तदुपपत्तश्च / न चतुर्थः / काल सिद्धि परिहरति-वमिति / देशकालादेः परिच्छिन्नत्वेन तदुपादानस्य परिच्छिन्नत्वसंभवादिति भावः। संभावनायामपि परिच्छिन्नत्वे किं मानमित्यत आहविनाशित्वादिति / __अज्ञानस्य परिच्छिन्नत्वेऽनवछिन्नब्रह्मावारक्त्वानुपपत्तिरित्युक्तं निराकरोतिनचैवमिति / निरूपितावरणस्येति / अस्ति प्रकाशत इति व्यवहारहेती सति नास्तीत्यादिव्यवहारयोग्यत्वादिरूपस्येत्यर्थः / परोक्तसत्त्वनिरुक्तिमनूध निराकरोति-यत्त्वित्यादिना / किं मिथ्यात्वाभावः सत्त्वमिति त्वन्मतेनोच्यते उत मन्मतेन / नाद्यः, तव मते मिथ्यात्वस्याप्रामाणिकत्वेन तत्प्रतियोगिकाभावासंभवादित्याह-सवेति / द्वितीये तु न प्रपञ्चे सत्त्वसिद्धिरित्याहअस्माकंस्विति / अद्वैतश्रुतेः मुख्यार्थासंभवात् अन्यपरत्वमित्याशक्य' भाष्यकारादिभिः अद्वितीयपरताया उपपादितत्वान्नवमित्यभिप्रेत्याह-श्रुतेरर्थमिति / शुक्त्यादरसत्व प्रसङ्ग इति / न चेदमंशज्ञानस्याभ्रमत्वात् नायं दोष इति वाच्यम् / तस्य भ्रमाभिन्नतयापि भ्रमविषयत्वात् विषयभेदेन ज्ञानभेदायोगाच्चेति भावः। दृषित इति / तव मतेऽनिर्वचनीयत्वासिद्धिः अस्मन्मते च तदभावायोगादित्यर्थः। विशेषणविशेष्याभेदादिति / असद्विलक्षणत्वाभावयोरभेदेनान्यतरवैयथ्य दित्यर्थः / ___ अस्तु तर्हि भसद्वैलंक्षण्यमात्रमेव सत्त्वमित्याशक्य तस्य मिथ्यात्वेऽपि संभवान्मैवमित्याह-तस्येति / प्रमाया दुर्निरूप्यत्वादिति / तद्वति तत्प्रकारकस्वरूपप्रमाया

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486